________________
श्रीवर्धमानमरिविरचितं [स.१.४८५-४९६] स्वं शिष्यं भोजयेदानीं त्वां वा हन्मि शठं हठात् । इत्युक्तस्तेन यक्षेण मुनीशः केशवं जगौ ॥ ४८५ ॥ अप्यकृत्यं सृजेद्देवगुरुसङ्घकृते कृती । यामी मामीदृशा नन्तु त्वद्गुरुं कुरु भोजनम् ॥ ४८६ ॥ धर्माख्याने ऽपि यो वक्ति विधिमन्यापदेशतः । सत्वी मृत्युभिया दत्तां स पापे ऽनुमतिं कुतः ॥४८७॥ तन्नूनं मद्गुरुनायमियं मायास्य मायिनः । इति ध्यात्वाथ मौनेन यशोधनसुतः स्थितः॥४८॥युग्मम्।। मुनौ मुद्गरमुद्यम्य त्वद्गुरुं हन्मि भुंक्ष्व वा । इति कोपकरालाक्षो जगौ यक्षो ऽथ केशवम् ॥ ४८९ ॥ सोऽ पि व्याचष्ट रे मायिन्ममायं न गुरुः स हि । तादृक्षचारुचारित्रपात्रं न त्वादृशां वशः ॥ ४९० ॥ त्वद्गुरुस्त्वद्गुरुः सो ऽस्मि कृपाब्धे भुक्ष्व रक्ष माम् । इत्यारटन्नथ मुनिस्तन्मुद्गरहतो ऽपतत् ॥ ४९१ ॥ तं व्यसुं वीक्षमाणस्य केशवस्याव्रतस्ततः। एत्यादत्त गिरं यक्षो मुद्ररभ्रमिभीषणः ॥ ४९२ ॥ सम्प्रत्यश्नासि चेत्तत्ते जीवयामि गुरुं जवात् । वितरामि तरामृद्धि प्राज्यं राज्यं च किंचन ॥ ४९३ ॥ एत मुद्गरनिर्यातनिर्विघ्नगगनक्रमः । पथि कीनाशहर्म्यस्य पथिकीक्रियसे ऽन्यथा ॥ ४९४ ॥ ततः पुण्यसुधासिन्धुहंसो हंसानुजो हसन् । दशनांशुमिषप्रेक्ष्यमाणसत्त्वगुणो जगौ ॥ ४९५॥ नैवायं मद्गुरुः किंचत्वया जीवन्ति चेन्मृताः। . तदमीषां स्वभक्तानां सर्वाञ्जीवय पूर्वजान् ॥४९६ ॥