________________
[स.१. ४७३-४८४] वासुपूज्यचरितम्
उपवासे ऽत्र जायेत गुणो गुञ्जासमो न वा । ध्रुवं दोषस्तु दोषायां भोजने भूधराधिकः ॥ ४७३ ।। उपवासो ऽप्यसौ न स्याद्यत्रैवं निशि भुज्यते । धर्मशास्त्रेष्वहोरात्राभोजने स हि कीर्त्यते ॥ ४७४ ॥ धर्मशास्त्रविरुद्धं ये तपः कुर्वन्ति दुर्धियः । ते यान्ति दुर्गतिं धूर्ताः कूटद्रव्यकृतो यथा ॥ ४७५ ।। ते ऽप्यशंसन्नसावेव देवस्यास्य व्रते विधिः । युक्तैरपि न शास्त्रोक्तैर्विरच्यास्य विचारणा ॥ ४७६ ।। अवश्यमतिथिं कंचिद्भोजयित्वाद्य भुज्यते । इति तदर्शने ऽस्माकं रजनिर्विपुलाजनि ॥ ४७७ ।। तत्तूर्ण पारणे ऽस्माकमस्मिन्भव पुरःसरः । इत्युक्त्वोत्थाय ते सर्वे तस्य पाणिपदे ऽलगन् ।। ४७८ ।। पुण्येशः केशवश्चनमप्यवाजीगणद्गणम् । एकस्तदैव यक्षाङ्गाद्भीष्माङ्गो निर्ययौ नरः॥ ४७९ ।। रे दूषयसि मे धर्म मद्भक्तानवमन्यसे । भुक्ष्व शीघ्रं न चेन्मुण्डं शतखण्डं करोमि ते ॥ ४८० ॥ इत्याक्षिप्य गिरा तीक्ष्णरूक्षया मंच केशवम् । सो ऽयमुद्गमयामास मुद्गरं विकरालहक् ॥ ४८१ ।। हसन्हंसानुजो ऽथाह किं क्षोभयसि यक्ष माम् । भवान्तरोद्भवद्भूरिभाग्यर्द्धर्मृत्युभीः क मे ॥ ४८० ॥ आचचक्षे ऽन्तरिक्षे ऽथ यक्षः स्वान्किारानिति । एतद्धर्मगुरुधृत्वानीय वथ्यो ऽस्य पश्यतः ॥ ४८३ ॥ अथाकाशे कशपाशभृद्भिस्तत्किकरधृतम् । आर्तघोषमृषि धर्मघोषमैक्षत केशवः ॥ ४८४ ॥