SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीवर्षमानारिविरचितं [स.१.४६१-४७२] अथैनमेनसां धाता तत्पिता कुपितो ऽवदत् । । लड्वसे यदि मद्वाचं मुश्च लोचनवर्त्म तत् ॥ ४६१ ॥ ततो ऽथ विषभृद्वन्दकन्दरादिव मन्दिरात् । स निःससार संसारकारणं ममतां त्यजन् ।। ४६२ ॥ हंसं तमनुगच्छन्तं कृच्छ्राद्धृत्वा यशोधनः । प्रलोभ्य बहुभिर्वाग्भिोजनाय न्यवीविशत् ॥ ४६३ ॥ पुरग्रामनगारामविलङ्घनघनक्रमः । स ययौ सप्तमे ऽप्यह्नि तथैवावेशवान्पथि ॥ ४६४ ॥ अटन्नटव्यां कुत्रापि निशीथसमये ऽथ सः। घनयात्राजनं यक्षायतनं किंचिदैवत ॥ ४६५ ॥ तत्र यात्राजना यक्षगृहे सज्जितभोजनाः । हृष्यन्तः समभाषन्त तमागच्छन्तमुत्सुकाः॥ ४६६ ॥ एोहि भोज्यमादेहि देहि पुण्यानि पान्य नः। पश्यामः काममतिथिं वयंमारब्धपारणाः ॥ ४६७ ॥ कीदृग्बत व्रतं यस्य निशि पारणमित्यथ । केशवो विकसत्पुण्यसन्तानस्तानभाषत ॥ ४६८ ॥ ते ऽवदन्माणवाख्यो ऽयं यक्षो दक्षो जगन्मुदे । स्यादस्याध महायात्रा पुण्यपात्रावितस्थितिः ॥ ४६९ ॥ कृत्वोपवासं दिवसे निशीथे ऽतिथिमादरात् । भोजयित्वा विधातव्यं पारणं पुण्यकारणम् ॥ ४७० ॥ तदीक्षोपवासानां पारणायोयमस्पृशाम् । त्वं भवातिथिरस्माकमाकमिकसमागमः ॥ ४७१ ॥ . स जगौ नेह भुजे ऽहमंहःकारिणि पारणे ।। रजन्यां भोजनं न स्याद्युक्तमुक्तमिदं यतः ४७२ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy