________________
[स.१, ४४९-४६०] वासुपूज्यचरितम्
यदभुक्तवतोर्मुक्ते युवयोर्न जनन्यपि। .
अद्यास्यास्तदभूषष्ठ उपवासः प्रयासकृत् ॥ ४४९ ॥ • तद्वा षण्मासजन्मासौ स्वसा कुसुमकोमला । स्तन्यान्यलभमानाद्य कियन्म्लाना विलोक्यताम् ॥४५०॥ म्लानिमस्याः शिशोर्वीक्ष्य कारणं मम पृच्छतः । आख्यद्भवदनाहारपूर्व सर्वमयं जनः ॥ ४५१ ॥ तद्भुज्यतां यथा भुङ्क्ते भवन्मातापि संप्रति । कृपासारौ शिशोरस्या मा भूपित्तादिभूर्व्यथा ॥ ४५२॥ पूर्व निशाया यामाध प्रदोषः कीर्त्यते बुधैः । प्रत्यूषं पश्चिमं तेन सा त्रियामेति विश्रुता ॥ ४५३ ।। इदानी भोजनं तद्वां न निशाभोजनं भवेत् । यामिनीघटिकायुग्ममपि नाद्यापि याति यत् ।। ४५४ ॥ इति तातगिरा भिन्नः क्षुधा च विधुरीकृतः । हंसः क्लेशहतावेशः केशवाननमैक्षत ॥ ४५५ ॥ इति ज्यायांसमुद्भाव्य भ्रातरं कृत्यकातरम् । व्याचष्ट केशवः कष्टजनकं जनकं प्रति ॥ ४५६ ॥ यस्ते सुखकरो भावः करोगि तमहं पितः । न ते सुखायते तत्किं यन्मे पातकघातकम् ॥ ४५७ ॥ यजनन्यादिवात्सल्यं तच्छल्यं धर्मकर्मणः। स्वकर्मफलभुक्सर्वः कः कस्यार्थे करोत्वघम् ॥ ४५८॥ मुहूर्तो ऽह्नो मुखे ऽन्ते च निशासन्नो निशासमः । तत्तत्रापि न भोक्तव्यं निशैवास्त्यधुना पुनः॥ ४५९ ॥ तद्वारं वारमेवं न वाच्यो ऽहं भवता पितः। कार्ये ऽस्मिन्विहिते शान्ति क लभे भवतापितः ॥४६०॥