________________
३८
श्रीवर्धमानसूरिविरचितं [स.१.४३७-४४८] स्मित्वा तावूचतुर्मातः सन्मार्गः सेव्यते पितुः। सुपुत्रैरपि किं कूपे पतंस्तातो ऽनुगम्यते ॥ ४३७ ॥ तर्हि सम्प्रति लप्स्येथे न युवां भोजनं सुतौ । मात्रेत्युक्तौ ततो मौनं कृत्वा तौ जग्मतुर्बहिः ॥ ४३८॥ श्रेष्ठिनः सुतयोर्वाक्यं मिथ्यादृष्टेजगत्प्रियम् । विशेषाद्दोषकृज्जज्ञे ज्वरातस्य हविर्यथा ॥ ४३९ ॥ भवत्या भोजनं देयं रजन्यामेव पुत्रयोः । इत्थमत्यर्थशपथैः श्रेष्ठी रम्भामवारयत् ॥ ४४० ॥ जनन्याथ रजन्यां तावागतावार्थतावपि । न भोजनं महासत्वचक्रिणौ चक्रतुस्तदा ॥ ४४१ ॥ द्वितीये ऽह्नि शठश्रेष्ठः श्रेष्ठी तौ विशदाशयौ।... क्रयविक्रयलीलासु न्ययुक्त महतीष्वसौ ॥४४२॥ तथा लाभरसाभोगभङ्गीभिस्तौ विलेसतुः । तदेव कुर्वब्रोः कर्म यथागानिधनं दिनम् ॥ ४४३॥ तौ धाम यामिनीयामसमये समुपागतौ । अभुक्कैवापतुः स्वापं तदभिग्रहसाग्रहौ ॥ ४४४ ॥ इति व्यवहृतिं पित्रा कार्यमाणौ रसेन तौ। अजातभोजनावेव प्रसुतौ पश्च शर्वरीः॥ ४४५ ॥ षष्ठे ऽहनि निशारम्भे संभेजतुरिमौ गृहम् । आचष्ट च वचः श्लक्ष्णं विनयेन यशोधनः ॥ ४४६ ॥ वत्सौ यत्सौख्यदं मे स्यादिष्टं स्पष्टं तदेव वाम् । इति प्रत्ययतः किंचिद्वच्मि तच विरच्यताम् ।।४४७ ।। निशाहारपरहिार न वेद्मि युवयोऽवम् । तदीशि भृशक्लेशे युवां कार्ये नियोजितौ ॥ ४४८ ॥