________________
[स.१. ४२५-४३६] वासुपूज्यचरितम्
अभूतां भुवनानन्दचन्दनौ तस्य नन्दनौ ।। रम्भाकुक्षिसरोम्भोजश्रीहंसौ हंसकेसयौ ॥ ४२५ ॥ ये दोषाभोजने दोषा धर्मघोषाभिधाद्गुरोः । वनं गताभ्यां ते ताभ्यां देशनासु निशामिताः ॥ ४२६ ॥ तो बोधात्तं गुरुं साक्षीकृत्य कृत्यविवेकिनौ । रजनीभोजनत्यागं मुदितौ चक्रतुस्ततः ॥ ४२७ ॥ अथ धाम्नि गतौ मध्यंदिने जनितभोजनौ । भागे ऽष्टमे ऽहस्तौ मातुर्वैकालिकमयाचताम् ॥ ४२८ ॥ किं भोज्यमधुना वत्सौ यतो दुग्धप्रियौ युवाम् । तत्पुनः स्थितवेलायां निशि स्यात्तत्किमुत्सुकौ ॥ ४२९ ।। इति मातुर्वचः श्रुत्वा तौ सत्यमिदमूचतुः। आवाभ्यां नियमान्मातस्तत्यजे रात्रिभोजनम्॥४३०॥युग्मम्।। इदं गर्भगृहस्थेन निशम्य वचनं तयोः। यशोधनेन सक्रोधं दध्ये मध्ये हृदस्तदा ॥४३१ ॥ ध्रुवं धूर्तेन केनापि सुतौ मे विप्रतारितौ। ततः कुलक्रमायातं त्यजतो रात्रिभोजनम् ॥ ४३२॥ तदवश्यं बुभुक्षातौं कृत्वा द्वित्रैर्दिनैः सुतौ । त्याजयिष्यामि तं रात्रिभोज्यत्यागकदाग्रहम् ॥ ४३३ ।। एवं चिन्तयता तेन रम्भा स्थालार्थमागता । • सुतयोर्भोजनं देयं नेति च्छन्नं न्यवार्यत ॥ ४३४॥ । भर्तुराज्ञावशादेषा तावत्यावददित्यथ ।
अन्नपाको ऽधुना भावी पकानाधस्ति वस्तु न ॥ ४३५ ।। * च रात्रौ समं पित्रा युवाभ्यां भोज्यमेव यत् । कुलीनास्ते सुता ये स्युः पितृमार्गानुगामिनः ॥४३६ ॥