________________
--श्रीवर्षमानमूरिविरचितं.स.१.४१३-४२४]
प्राप्य सौधर्मदेवत्वं ममेहग्वैभवं कुतः । इत्याशु ध्यायतादर्शि तन्निमित्तं मया भवान् ॥ ४१३ ॥ तन्नागविरहार्तस्य सद्यः प्रीतिकृते तव । मुक्तोरुदिव्यरूपश्रीस्त्वामागां नागरूपभाक् ॥ ४१४ ॥ प्रभुत्वं स्वप्रसादस्य मयि पश्यति स द्विपः। तदिव्यं दर्शयामास स्वं वपूरविपूररुक् ॥ ४१५ ॥ जीवतो भोगदस्त्वं मे नियमाणस्य धर्मदः । तत्प्रभुश्च गुरुश्वासि शून्यहस्तेन नेक्ष्यसे । ४१६ ॥ पारिजाततरोः स्वर्गलक्ष्मीलक्षणलक्ष्मणः । गृहाणेदं फलं राजन्रसैराजिमितामृतम् ॥ ४१७ ॥ सद्य एवेदमास्वाद्यं क्षाल्यो ऽस्य रसनिझरैः । भवद्भाग्यविधोः पड़ने वपुःसंकोचविप्लवः ॥ ४१८ ॥ इदं निगदता तेन तद्दत्तं घुसदा फलम् । आदाय नृपतिः प्रीत्या प्रत्याह स हसन्वचः ॥ ४१९ ।। आसनमुक्तपशुतासुलभं मोहमुद्वहन् । किं विवेकिन्फलस्वादं निशायां दिशसि स्वयम् ॥ ४२०॥ सुरमुख्य ममेदानीं वपुषः पाटवेन किम् । नैन्यादिलाभलोभे ऽपि जन्यं रजनिभोजनम् ॥ ४२१ ।। आदृतं दुःखपूराय विमुक्तं पुण्यपंक्तये । सान्निशाभोजनं हन्त हंसकेशवयोरिव ॥ ४२२ ॥
सद्यथा पृथिवीकान्ताकुण्डलं कुण्डिनं पुरम् । अस्ति भुक्तास्रगाकारमाकारपरिवेषभृत् ॥ ४२३ ।। तस्मिन्यशोधनो नाम यशोधवलितावनिः । बभूव नवद्व्योपार्जकचूडामाणर्वणिक् ॥ ४२४॥ .