________________
~
~
~
~
~
[स.१. ४०१-४१२] वासुपूज्यचरितम्
मृतो न जीवतीत्युक्तिर्जिनशासनशास्त्रगा। . कथंचिदन्यथापि स्यात्किं वा कालेन केनचित् ॥ ४०१ ॥ इत्यनल्पविकल्पालिं जजल्पालिङ्गनोन्मदम् । नृपं द्विपवरः स्मेरविस्मयं दिव्यया गिरा ॥ ४०२॥ हहा महात्मन्मोहस्त्वां किं ध्वान्तो ऽर्कमिवाविशत् । यदन्यथा जिनमतग्रन्थोक्तमपि शन्से ॥ ४०३ ॥ मृत एवास्मि नाजीवमहं राजीवलोचन । विचार्या चन्द्रशालान्तर्दन्तिनामागतिः कुतः ॥ ४०४ ॥ दृष्टो ऽस्मि यन्मृतो यन्मे रूपमेतच पश्यसि । अस्वमतुल्यं न स्वमाविमौ स्वमः क जाग्रतः ॥ ४०५॥ तदनल्पयशःशिल्प तल्पमेतदलङ्करु । कथयामि यथा भूप स्वरूपमहमात्मनः ॥.४०६ ॥ अथोदारचमत्कारस्तच्चकार धराधवः। श्रोतुं तच्चरितं कण्डूप्रवणश्रवणद्वयः॥ ४०७॥ स्वान्तस्थसुकृताम्भोधिसुधोमिनिभवागिभः । अवदन्मदमत्तालिकण्ठतालान्कठोरयन् ॥४०८॥ . राजन्नाजन्मनियाजध्यातधर्मपिधायिना । मृत्युक्षणे व्यथौघेन मोहितो ऽहमचिन्तयम् ॥ ४०९ ॥ नित्याहृतनृपद्रव्या न व्याधिं ये हरन्ति मे । तान्वैद्यान्यदि पश्यामि तन्नयामि यमालयम् ॥ ४१०॥ इति रौद्रतरध्यानरधोऽधःपातिनं तदा । मामुद्दधार श्रीधर्मस्त्वगिरा जातजागरः ॥ ४११ ॥
परमेष्ठिनमस्कारसुधाब्धिलहरीभरैः । · लिप्तः सौधर्मकल्पे ऽहं त्वन्मुखेन्दूदितैस्तदा ॥ ४१२ ॥