________________
३४
श्रीवर्धमानसूरिविरचितं [स. १.३८९-४०० ]
चन्दनागुरुकर्पूरकस्तूरीणां भरैरिभम् । अह्नि हुतं चक्रे शोकाश्रुहनृपः ।। ३८९ । तस्यं कालोचितां धर्मबद्धां बन्धोरिव क्रियाम् । विधाय दुःखदीनात्मा ययौ धाम धराधिपः ।। ३९० ॥ दुःखदीर्घ दिनमयं गमयित्वा कथंचन ।
नृचन्द्रश्चन्द्रशालायां निशि शय्यामशिश्रियत् ।। ३९१॥ श्वासोच्छ्वासोल्लसच्छोकशङ्कसंकुल्यमानहृत् । - निद्रामलभमानो ऽयमित्यन्तः समचिन्तयत् ॥ ३९२ ॥ बहुदेशम हैश्वर्यश्रियापि मम किं तया ।
मृते ऽस्मिन्सिन्धुरे कृत्तधम्मिल्लेव बभूव या ।। ३९३ ।। तारयेव विना दृष्टिरात्मनेव विना तनुः । कीदृशी भाति मे भूमिस्तेनेभविभुना विना ।। ३९४ ॥ गिन्द्रियेण किं मे s किम कर्णेन्द्रियेण वा । येन दृश्यं न तद्रूपं येनाकर्यो न तद्ध्वनिः ॥ ३९५ ॥ भ्रमन्ती यत्र तत्रापिं खियं नयनद्वयी । तद्विलोकसुधापानं विना तप्ता क शाम्यतु ।। ३९६ ॥ पुरातनानि मे सन्ति यदि पुण्यानि कानिचित् । तैरध्वनि शोरेकवारमेतु स वारणः ।। ३९७ ॥ इति क्षितिपतिर्थ्यायनेत्राग्रे गजमैक्षत । अल्पकल्पद्रुनैपुण्यं पुण्यं पुण्यक्तां यतः ।। ३९८ ।। शोकाश्रूण्यथ हर्षा कुर्वन्नुवन्दुरुत्थितः । आलिङ्गद्धस्तिनस्तस्य हस्तं हस्तोरसा रसात् ॥ ३९९ ॥ दध्यौ च किं मयादर्शि स्वमे व्यसुरसौ गजः । मृत एवाथवा जीवनेष स्वप्नान्निरीक्षितः ॥ ४०० ॥
www