________________
श्रीवर्धमानसरिविरचितं [स.१.३६५-३७६] मर्यादायन्त्रिताहारविहारो विदधे ज्वहम् । शमजातमन शैत्यः स चैत्यपरिपाटिकाम् ।। ३६५ ॥ द्विपः स पर्वसद्गर्वधर्मकर्मा विनिर्ममे। . साधुश्राद्धौघमध्यस्थो जिनयात्रोत्सवादिकम् ॥ ३६६ ॥ इत्येष करिणामिन्द्रः करुणामुद्रिताशयः । समयान्गमयामास बहूनराशा बहूकृतः ॥ ३६७ ॥ अन्येचुर्गजवैद्यस्त मजमस्तंगतोद्यमम् । वीक्ष्य ज्वरभराक्रान्तं राज्ञे व्यज्ञपयद्रुतम् ॥ ३६८ ॥ राजन् राजति यो युष्मजीवितस्यापि जीवितम् । कुम्भी रिपुयशन्शुम्भी सो ऽभवज्ज्वरजर्जरः॥ ३६९ ॥ ततः पितुरिव भ्रातुरिव मातुरिव ज्वरम् । आकर्ण्य व्याकुलो ऽभ्यर्णे गजस्य स ययौ नृपः॥ ३७० ॥ अथाह पृथिवीजानिर्यः कुर्यात्रीरुज गजम् । दद्यामद्यात्मनस्तस्मै राज्यार्थ राज्यमेव वा ॥ ३७१ ॥ किं राज्यस्त्वत्वसादामः किमल्पमिति जल्पिनः । गजराजरुजश्छेदे वैद्याश्चक्रुरुपक्रमम् ॥ ३७२ ॥ स रिपून्परिपूर्णायुर्जेतुं कर्माभिधान्पुनः । सानं रोगपरीतो ऽयं करी तोयं विमुक्तवान् ॥ ३७३ ।। अस्यां रुजि न जीवामि जगृहे ऽनशनं मया । इति च क्ष्मापतेराख्यक्षितिन्यस्ताक्षरः करी ॥ ३७४ ॥ मध्ये पुरस्य न श्रेयो मरणं करिणामिति । जगाम सामजन्मायं शनैरुषवनापनीम् ॥ ३७५ ॥ अधः शिवेव कर्माणि प्रपेष्टुं प्रतिमल्लवत् । उपाविक्षदसौ वक्षःस्पृष्टदृक्पूतभूतलः ॥ ३७६ ॥