________________
[स.१. ३५३-३६४] वासुपूज्यचरितम्
तत्पुण्याढय गृहस्थो ऽपि ध्यानस्यामुष्य योगतः। केवलज्ञानमासाद्य सद्यः सिद्धो भविष्यसि ॥ ३५३ ।। तत्रेदं शृण्वभिज्ञानमभिज्ञजनमण्डनम् । संकोचदूषणं ते ऽङ्गादुत्तरिष्यति सर्वथा ॥ ३५४ ॥ तर्हि देहि गृहस्थानामेव धर्म मम प्रभो । इत्युक्तो भूभुजा मूरिः श्रद्धापूरितचेतसा ॥३५५ ॥ तस्मिंस्तदैव सम्यक्त्वं द्वादशव्रतभूषितम् । विधिनारोपयामास प्रकाशितमहोत्सवे ॥ ३५६ ॥ युग्मम् ।। व्रतानां सेवने शिक्षा दक्षायास्मै प्रदाय सः। सद्गुरुपियामास विशेषादिति तं नृपम् ॥ ३५७ ॥ अयं सम्यक्त्वतत्त्वज्ञो विधिज्ञाननिधिर्गजः । अबन्धनीयो धर्मात्मा धर्मबान्धवतां गतः ॥ ३५८ ॥ सिन्धुरो ऽयमबद्धो ऽपि न किंचित्पीडयिष्यति । यद्वितीये भवे स्वर्गी सप्तमे सिद्धिसौख्यभाक् ॥ ३५९ ।। अतः सुकृतकार्येषु निःशेषनिजदोपहृत् । न शोच्यः पशुरूपो ऽपि भूप चिद्रूपचेतनः ॥ ३६० ॥ __ तथेति प्रतिपद्याथं कर्मोन्माथकथामिमाम् । गुरुं नत्वा नृपो धर्मवासः स्वावासमासदत् ॥ ३६१ ॥ राजा कुञ्जरराजस्य गुर्वाज्ञाराजितस्ततः। बन्धारोहणयुद्धादिबाधाचारमवारयत् ॥ ३६२ ॥ नृपतिपिनाथस्य स्वस्येवास्य व्यधापयत् । नित्यं भोगभृतस्य त्रीन्वारानारात्रिकक्रियाः ॥ ३६३ ॥ चलन्पदात्पदान्मन्दं स जन्तुकृपया द्विपः। तन्मन्दगतयो ऽद्यापि तत्क्रमणैव वारणाः ॥ ३६४ ॥