________________
श्रीवर्धमानसूरिविरचितं [सं.१.३४१-३५२] दुष्कर्मनिर्मितामुच्चैः शुचं क्लमयतीत्यदः। शुक्लमादिश्यते ध्यानं तदपि स्याच्चतुर्विधम् ॥ ३४१ ।। पृथक्के ऽपि पदार्थानामनुमानविचारतः। शुने पदे पदार्थस्यादृष्टस्यापि स्वरूपधीः ॥ ३४२ ॥ दृष्टे पदार्थे विज्ञानं पदस्याप्यश्रुतस्य यत् । स्यात्पृथक्तवितर्केण सविचारं तदादिमम् ॥३४३॥युग्मम्।। ददच्छब्दार्थयोरैक्यपरिज्ञानं वितर्कतः। .. अपृथ त्वविचारेण मनोनैश्चल्यकारणम् ॥ ३४४ ॥ पूर्वश्रुतानुसारोत्थं केवलज्ञानहेतुकम् । तद्वैतीयकमेकत्ववितर्कमविचारकम् ॥ ३४५ ॥ युग्मम् ॥ निरुद्ध वाङ्मनोयोगयुगे केवलिनः प्रभोः । यद्भवत्यङयोगे ऽर्धनिरुद्धे मुक्तिकालतः ॥ ३४६ ॥ श्वासोच्छ्वास क्रिया सूक्ष्मा यत्र यन्न निवर्तते । तृतीयं कथ्यते सूक्ष्मक्रियं तदनिवर्तकम् ॥ ३४७॥युग्मम्।। अङ्गत्यागे ऽपि यत्रात्मा शैलेशीकरणस्थितः । इशः शैल इवात्मीयमङ्गरूपं न मुञ्चति ॥ ३४८ ॥ मुत्युत्पातक्षणे मुक्तश्वासोच्छ्वासादिकक्रियम् । अनिवर्ति च यत्तत्स्यात्तुर्य व्युपरतक्रियम् ॥३४९॥युग्मम्।। आत्मप्रकाशकैवल्यरूपं कर्मक्षयोदितम् । केवलज्ञानकाले स्याद्ध्यानं शुक्लं तु योगिनः ॥ ३५० ॥ एतद्धयानं स्वतो जातं सद्गुरोवोपदेशतः । वज्रऋषभनाराचदेहस्यैव स्थिरं भवेत् ॥ ३५१ ॥ इदं स्थिरत्वमापनं कृत्वा कर्मक्षयं क्षणात् । ... जनयेत्केवलज्ञानं योगीन्द्रस्य शिवप्रदम् ॥ ३५२ ॥