SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ [ स . १. ३२९ - ३४०] वासुपूज्यचरितम् तृतीयं त्वतिदुष्टस्य भूरिलोभनुधाहृदः । भूतघातपरद्रव्यापहारप्रणिधामयम् || ३२९ || शब्दादिविषयापूर्तिहेतुषु द्रविणेषु यत् । लब्धिसंग्रह संरक्षाप्रणिधा तत्तुरीयकम् ।। ३३० ॥ उत्पद्यमानमप्येतद्वयं वार्य शुभाशयैः । उपेक्षितं प्रमादात्तु महादुःखाय जायते ।। ३३१ ॥ धर्मादनपेतं तद्धर्म्य तत्तु चतुर्विधम् । आद्यं तत्र जिनाज्ञायाः पालनं तत्त्वनिश्वयात् ।। ३३२ ॥ कषायविषयापायत्राणचिन्ता द्वितीयकम् । तृतीयं चिन्त्यते कर्मविपाकश्च शुभाशुभः || ३३३ ॥ उत्पत्तिविगमध्रौव्यस्वरूपस्य नराकृतेः । २९ अनाद्यन्तस्य लोकस्य चिन्तनं तच्चतुर्थकम् ।। ३३४ ।। अन्यथा वा चतुर्धोक्तं धर्म्यध्यानमिदं बुधैः । पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् ॥ ३३५ ॥ देहस्थं ध्वस्तकर्माणं चन्द्राभं ज्ञानिनं सुधीः । यत्रात्मानं परैश्वर्य पश्येत्पिण्डस्थमत्र तत् ।। ३३६ ॥ मन्त्राक्षराणि शारीरपद्मपत्रेषु चिन्तयेत् । गुर्वादेशेन यद्योगी पदस्थं तदिहोच्यते ।। ३३७ ॥ सप्रातिहार्य समवसृतिस्थं ज्ञानिनं जिनम् । तद्विम् वा स्मरेद्योगी यत्तद्रपस्थमिष्यते ।। ३३८ ॥ यदमूर्त महानन्दमयं सिद्धं निरञ्जनम् । ध्यायेद्योगी परात्मानं रूपातीतं दिशन्ति तत् ।। ३३९ ।। एवं संक्षेपतः प्रोक्तं धर्मध्यानं धराधिप । इह लोके ऽपि माहात्म्यमस्यानन्तं सतां भवेत् ॥ ३४० ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy