________________
श्रीवर्धमानसुरिविरचितं [ स.४.११६२ - ११७३]
कलत्रैरष्टभिः सो ऽब्जपत्रैरिव मधुव्रतः ।। ११६२ ॥ विमलाद्रौ जिनं नन्तुं गतो ऽन्येद्युर्वृतो जनैः । जिनाचरिचनैः श्रान्तो रात्रौ सुष्वाप तत्र सः ॥ ११६३॥ गिरावागतया तत्र खेचर्या चित्रलेखया ।
४५०
कुमारेन्द्रः सनिद्रस्तु हृतो रूपानुरक्तया ।। ११६४ ॥ वैताढ्यमूर्ध्नि तं क्षीणनिद्रं वीक्ष्य रुषारुणम् । सा सिद्धायतने मुक्त्वापहार भयभाग्ययौ | ११६५ ॥ द्राक्सिद्धायतने वज्रकपाटैरुदघटयत । तस्मिन्दृष्टे स्वयं पद्मपत्रैरिव विवस्वति ।। ११६६ ॥ हर्षसंदर्भनिर्भग्नदुरितो नृपनन्दनः ।
ततः प्रण्यपतत्सिद्धान्सिद्धायतनवर्तिनः ।। ११६७ ॥ तत्र नत्वाथ तं प्राह पुमान्कश्चित्कृताञ्जलिः । अद्वैताढयोल्लसल्लक्ष्मीर्वैतादयो ऽयं गिरिः प्रभो ॥११६८॥ इहाभयपुरं नाम पुरमास्ते रमास्पदम् ।
राजा पवनवेगो ऽत्र वैरिगोत्रदवानलः ।। ११६९ ॥ तस्य चित्तप्रिया चित्तवेगाख्यास्ति स्मरायुधम् । तत्सुता गतशोका च रूपे वाचामगोचरः ॥ ११७० ॥ को भविष्यति भर्तास्याः सुताया इति भूभुजा । पृष्टः प्राह त्रिकालज्ञः पुरापि प्रत्ययप्रदः ।। ११७१ ॥ रूपानुरक्तया दूराद्विद्याधर्या हृतः प्रभो । भविष्यच्चक्रवर्तीति पुत्र्या भर्ता भविष्यति ।। ११७२ ॥ ज्ञातव्यः स त्रिकालज्ञ कथं नरशिरोमणिः । इति मौहूर्तिकं भूपः पप्रच्छातुच्छसंमदः ॥ ११७३ ॥ • सिद्धवटे कपाटाभ्या प्राप्ते यत्रोद्धटिष्यते ।