SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ [स.४.११५०-११६१] वासुपूज्यचरितम् ४४९ तदा तदागसा पुत्रं समित्रं निरकासयत् ।। ११५० ।। जलस्थलघुदेवीनामपि दृष्टीर्विलोभयन् । वीतशोकां पुरीमर्ककीर्तिर्मित्रयुतो ययौ ।। ११५१ ।। नृपालिमालितोद्यानामर्ककीर्तिर्विलोक्य ताम् । किमेतदिति पप्रच्छ नरं कंचिदुवाच सः ।। ११५२ ॥ राजास्तीह श्रियामुत्साहनो विमलवाहनः । गुरुणा धीगुणेनासिर्यस्याहिंसावती कृतः ॥ ११५३ ।। दिद्युते सुप्रभा नाम सत्मभाधाम तत्प्रिया । जाने यदूपनिष्पत्तौ विधातापि चमत्कृतः ।। ११५४ ।। अनयोस्तनयास्ति श्रीरिव स्मरमहीभुजः । नाम्ना जयवती धाम्ना हेम्नामिव समुच्छ्रयः ।। ११५५ ।। सत्यप्रत्ययदैवज्ञादिष्टज्ञानवशंवदः । नृपः प्रत्यगृणोदातुं तां राधावेधवेधसे ।। ११५६ ।। तद्भूभुजो भुजोद्दर्पाः कन्दर्पाज्ञावशंवदाः । के के त्र नागमन्नाम राधावेधविधायिनः ॥ ११५७ ॥ इति मत्वा प्रमुदितः समित्रो नृपनन्दनः । यौ तत्र द्रुतं राधायन्त्रं यत्र प्रपञ्चितम् ॥ ११५८ ॥ तत्र यन्त्रं भ्रमिश्रान्तमिवातुलतृषाकुलम् | सर्वेषामपि भूपानां पपौ कीर्तिमयं पयः ।। ११५९ ॥ चमत्कारं हृदि म्लानिमानने भूभुजां सृजन् । उत्कीर्तिर कीर्तिस्तु राधावेधविधिं व्यधात् ।। ११६०॥ पर्यषी जयवतीमसौ सप्तानुजान्विताम् । अर्ककीर्तिस्ततः प्राचीमिवार्कः सप्तदिग्युताम् ।। ११६१ ॥ तत्र तस्थौ चिरं भोगभरादनुभवन्मुखम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy