________________
स.४.११७४-११८५] वासुपूज्यचरितम्
४५१ अस्याः पतिः स चक्रीति राज्ञे दैवज्ञको ऽदिशत् ॥११७४॥ तं ज्ञातुमिह राज्ञाहं दिष्टो दृष्टो ऽसि तच्चिरात् । तदेहि गेहिनी ते ऽस्तु स्मराज्ञा देहिनीव सा ॥११७५॥ इत्याकर्ण्य कुमारेन्दुः समं तेनैव सो ऽचलत् । तेन विज्ञापितश्चागात्संमुखं खेचरेश्वरः ॥ ११७६ ॥ उत्सवेन प्रवेश्याथ कुमारं पुरि खेचरः । प्रीतो विवाहयामास सुतया गतशोकया ॥ ११७७॥ हृष्टेन तेन जामात्रा काममात्राधिकश्रिया। पाप प्रीतः परां कोटिमखिलः खेचरान्वयः ॥ ११७८ ॥ दत्तास्त्रित्रिंशतं कन्याः खेचरैरपरैरपि । स व्युवाह स्मरक्ष्मापनलक्षणकला इव ॥ ११७९ ॥ पञ्चवर्षीमसौ हर्षी तत्र स्थित्वोपभोगभाक । विद्याधरेन्द्रमापृच्छय लब्धविद्याचयो ऽचलत् ॥११८०।। कमलाकरमाकाशं कुर्वन्कान्तामुखैरसौ । ययौ रथविमानाश्वद्विपस्थैः खेचरैर्वृतः ॥११८१ ॥ भग्नस्तम्भेन मदिना पार्थे ऽञ्जनगिरेर्जनम् । दुर्दमेन द्विपेन्द्रेण दम्यमानं ददर्श सः ॥ ११८२ ॥ अथोत्तीर्याम्बरादर्ककीर्तिरर्क इव द्रुतम् । ध्वान्ताधिदैवतमिव द्विपाधीशं वशं व्यधात् ॥ ११८३ ।। प्रभञ्जनो ऽञ्जनगिरिखामी ज्ञानिवचःस्मृतेः । ददौ तदास्मै मदनावल्याया अष्ट कन्यकाः ॥११८४ ॥ प्रभञ्जनमुदे तत्र स्थित्वाल्पं वैरिभञ्जनः । . चीतशोकां पुरी लोकहक्कृताभ्युत्थितिययौ ॥ ११८५ ।। अथाचजयवत्यादिपरीवारः पुरीमगात् । .