________________
२७
[स.१. ३०५ - ३१६] वासुपूज्यचरितम्
तद्वृक्षफलमाहात्म्यात्सद्यः संकुचिताङ्गकः । द्विपेनानेन स भवान्भुवनाधिपतिः कृतः ।। ३०५ ॥ यगोत्रगर्वतः साधोः पुरोऽल्पमपि चिन्तितम् । तदुत्पन्नो ऽसि पुण्याढ्य किंचिनीचकुले किल ॥ ३०६ ॥ शूकसंकोचिनाकर्षि शल्यं यन्मुनिलोचनात् । सममेवाङ्गसंकोचो राज्यं चाप्यत तत्त्वया ॥ ३०७ ॥ तत्कर्मामेयफलता भवता भाविता च यत् । तदमेयमहत्त्वं ते राज्यं राजनराजत ।। ३०८ ॥ कदापि कापि कस्यापि तवेवाद्भुतकर्मणः । पुण्यादेवेत्थमैश्वर्य नाभवन्न भविष्यति ।। ३०९ ॥ तदितः स्पष्टदृष्टान्तान्नित्यं कर्मणि निर्मले । स्थातव्यं भवभेदात्तपौरुषैः पुरुषोत्तमैः ।। ३१० ॥
अथ पृथ्वीपतिः प्राह प्रभो संयच्छ संयमम् । संसारवारिधेः सेतुं केतुं धर्ममहीपतेः ।। ३११ ॥ अथाचष्ट गुरुः स्पष्टं प्रतिलेखादिकर्मसु । अक्षमो ऽसि क्षमाभर्तर्व्रतमस्तु कुतस्तव ।। ३१२ ॥ किं ते व्रतेन कष्टेन विशिष्टसुकृताश्रय । अस्मिन्नेव भो भावी भवतो ह्यपुनर्भवः ।। ३१३ ॥ इत्युक्तो ऽप्यस्मयः स्मेरविस्मयः सस्मितं नृपः । गुरूनुवाच किं मे स्याद्गृहिणो ऽप्यपुनर्भवः ॥ ३१४ ॥ अजल्पत्तपनः साधुः शृणु पुण्याढ्यभूपते । ते पञ्चदशभिर्भेदैः सिद्धाः स्युरिह तद्यथा ।। ३१५ ॥ सिद्धस्तीर्थकरो तीर्थकरः प्रत्येकबुद्धकः । स्वलिङ्गः परलिङ्गश्च नरलिङ्गो नपुंसकः ।। ३१६ ॥