________________
४४०.
श्रीवर्धमानसूरिचिरचितं [सं.४.१०४३-१०५१]
रोहिणीभाग्यसौभाग्यचमत्कृतमना झुनिम् ॥१०४३ ॥ प्रभो किं मघक्त्पुत्र्या भाग्भवे सुकृतं कृतम् ।। यदेनां शोकलेशो ऽपि पस्पर्श न कदाचन ॥ १०४४ ॥ किं वा निरवधिः प्रीतिर्ममैतस्याः परस्परम्न किं वापत्यान्यमून्यस्याः शुभान्येवाखिलान्यपि ॥१०४५॥ ततः सर्वसभालोकचकोरानन्दचन्द्रिकाम् । शस्तां विस्तास्यामास मुनीन्दुर्विशदां गिरम् ॥ १०४६ ॥ धरित्रीश तवात्रैव पुरे नागपुरे पुरा । राजासीद्वसुपालाख्यस्तत्प्रिया वसुमत्यभूत् ॥ १०४७ ॥ मित्रं धात्रीपतेस्तस्य समभूभृरिवैभवः । धनमित्राभिधः श्रेष्ठी धनमित्रा च तत्प्रिया ॥ १०४८ ॥ अनयोस्तनया जज्ञे वैरूप्यैकनिकेतनम् । उग्रदुर्गन्धदेहत्वादुर्गन्धेत्यभिधानतः ॥ १०४९ ॥ . जनेष्वनिष्टां बीभत्सरसस्येवाधिदेवताम् । न तां पर्यणयत्को ऽपि यौवने ऽप्यतिदुर्भगाम् ॥१०५०॥ संख्यातीतवसुश्चेह वसुमित्रो ऽभवद्वणिक् । वसुकान्ता च तत्कान्ता श्रीषेणश्च तदङ्गजः ॥१०५१ ।। स सप्तव्यसनव्यग्रः श्रीषणः कापि चौर्यकृत् । वध्योर्वी नेतुमारेभे वधाय पुररक्षकैः ॥ १०५२ ॥ राज्ञो विज्ञप्तिमारच्य धनमित्रो विमोच्य तम् । वमुभिर्वाग्भिरावयं दुर्गन्धां पर्यणाययत् ॥ १०५३ ॥ अपि शोचन्वधोन्मुक्ति स तदुर्गन्धबाधया। कथंचिद्गमयित्वाहर्निशि निःसृत्य यातवान् ॥ १०५४ ॥ दानं दातुं नियुक्ताथ पित्रा.भिक्षाचरेष्वसौ ।