________________
[स.४.१०३२-१०४२] वासुपूज्यचरितम्
ततो धात्री जगौ पुत्रि यासौ स्वीन्दमध्यगा । मृतस्तस्याः सुतस्तस्य जलदानदिनं ह्यदः ॥ १०३२॥ ग्राहं ग्राहं गुणान्सूनोरित्यसौ बत रोदिति । तवापूर्व भवे ऽमुष्मिन्नेतत्संसारनाटकम् ॥ १०३३ ॥ चेन्मृतः सूनुरस्यास्तदित्थं रोदित्यसौ कथम् । कानया रोदनं ज्ञातमिति धात्रीमथाह सा ॥ १०३४ ॥ रोदनं ज्ञापयामि त्वामिति हास्यं वदन्नृपः । तदकाल्लोकपालाख्यमग्रहीच्चरमं मुतम् ॥ १०३५॥ क्ष्मायां क्षिपामि ते पुत्रमिति जल्पन्धियां प्रति । करस्थं तं बहिर्भित्तेर्बालमान्दोलयन्नृपः ॥१०३६॥ दैवादथ च्युतो बालः स महीपालपाणितः। वातात्फलमिवोच्चाद्रिशृङ्गशाखिशिखाग्रतः ॥ १०३७ ॥ पुरीजने परिजनेऽप्यथोद्धष्टहहारवे । किंकिंवचसि रोहिण्यामनुकम्पोन्मुखे नृपे ॥१०३८ ॥ अस्पृष्टभूतलं बालं तत्कालं पुरदेवता । तं नरेन्द्रासने ऽमुश्चत्पुष्पचन्दनचर्चितम् ॥१०३९ ॥
॥ युग्मम् ॥ स्वस्य पुत्रस्य पल्न्याश्च शृण्वन्पुण्यस्तुतिं जनात् । भूवरो ऽकारयत्तत्र पुत्रामृत्यूत्सवं ततः ॥ १०४० ॥ तदोद्याने चतुर्तानो मणिकुम्भाधसंयुतः। आगारक्षमासुधाकुम्भो रूपकुम्भो महामुनिः ॥१०४१ ॥ तत्रागाक्षितिसुत्रामा पुत्रामात्यकलत्रवान् । मुनि नत्वाशृणोज्जीवविचारां धर्मदेशनाम् ॥ १०४२ ॥ अथ पप्रच्छ पृथ्वीन्दुः पृथ्वीं भक्तिं वहन्हृदि ।