________________
४३८ श्रीवर्धमानमरिविरचितं [स.४.१०२०-१०३१]
न्यस्य सिंहासने हर्षाश्रुभिरेवाभ्यषेचि सः॥ १०२०॥ कारयित्वा कुमारस्य राज्यलब्धिमहोत्सवम् । श्रीसंयमधरोपान्ते प्रवत्राज प्रजापतिः ॥ १०२१ ।। मन्त्रिन्यस्तमहीभारः स रोहिण्या समं नृपः। धर्मभृङ्गारयोरेव सेवयाहर्निशं बभौ ॥ १०२२ ॥ रसादशोकरोहिण्योः सहेलं खेलतोर्ययुः । ऋतुचक्रेण ददतोर्मुदं कत्यपि वत्सराः ॥ २३ ॥ गुणपालप्रभृतयः सविस्तारगुणास्तयोः । सूनवो ऽष्टावभूवन्दिग्भागा भूनभसोरिव ॥ १०२४ ॥ पुत्र्यश्च गुणमालायाश्चतस्रो निचितश्रियः । अभूवन्कामभूपालचतुरङ्गचमूसमाः ॥१०२५ ॥ धिष्ण्ये राज्ञा सहारूढा गवाक्षे सप्तमे क्षणे । वसन्ततिलका धात्रीमन्यदा रोहिणी जगौ ॥ १०२६ ॥ आक्षि निक्षिप रथ्यायां मातः किमिदमीक्ष्यते । आमुक्तकेशं स्त्रीचन्दं करुणस्वरगीतभृत् ॥ १०२७ ॥ रीत्यन्तरस्फुरत्तूर्यनादप्रमितनर्तनम् । सुव्यक्तस्वस्तिकाकारभुजास्फालनहस्तकम् ॥ १०२८ ॥ भरतादिषु शास्त्रेषु न श्रुतं नेक्षितं कचित् ।। अत्याचर्यकरं कुर्वन्त्यमूः किं नाम नाटकम् ॥ १०२९ ।।
॥त्रिभिर्विशेषकम् ॥ तां क्रोधादभ्यधादात्री रूपगर्वः किमेष ते । श्रीगर्वः पतिगर्वो वा यदिहोपहसस्यमूः ॥ १०३० ।' रोहिण्यथाह मा कुप्य मातः को ऽपि न मे मदः । अदृष्टपूर्वमाश्चर्यादिदं पृच्छामि तत्त्वतः ॥१०३१ ।।