________________
[स.४.१००८-१०१५] वासुपूज्यचरितम् : ४३७.
चपुर साविकभावे च मज्जयामासः रोहिणी ॥१००८॥ तद्रूपेण तदाकृष्टिमन्त्रज्ञेनेव सत्वरं । आकृष्टा वरमालां सा तत्कण्ठे क्षिपति स्म ताम् ॥१००९।। तूर्णमर्धासने तस्य कलाबहुलतेजसः । रोहिणी रोहिणीवेन्दोरुपाविक्षन्मुदा ततः ॥ १०१०॥ तत्कालप्रस्फुरत्तूर्यगीतनृत्यसमाकुलः । पठद्वन्दिगणः प्रीतिमयो ऽयं समयो ऽभवत् ।। १०११ ॥ भव्यमासीद्गुणज्ञेयमणोदुचितं पतिम् । इति स्वयंवरे सर्वैर्भूप्रियैरपि पिप्रिये ॥ १०१२ ॥ मघवापि मुदात्मीयनामोचितमहोत्सवैः।। तयोररचयत्पीतः पाणिग्रहणमङ्गलम् ॥ १०१३ ॥ रोहिण्याः पुण्यमाहात्म्यादशेषान्हर्षितान्नृपान् । आवयं दानसंमानैमघवा विससर्ज च ॥ १०१४॥ वाग्भिर्धमैकधुर्याभिर्जिनधर्यानुरक्तया . रोहिण्या जिनधर्मानुरक्तः कान्तो ऽपि निर्ममे ॥ १०१५ ॥ तत्रैव भोगान्भुञ्जानो भूजानिसुतया सह । कुमारः स सुखं तस्थौ दोगुन्दक इवामरः ॥ १०१६ ॥ एत्य क्रमेलकैरब्धिलहरीचक्रमेलकैः । अशोकं वीतशोकस्य पुमांसो ऽन्येशुरावयन् ॥ १०१७ ॥ अशोको ऽपि तदुत्कण्ठी रोहिणीसहितस्ततः । मघवन्तं समापृच्छय त्वरितत्वरितं ययौ ॥ १०१८॥ स्नातः स पौरीशृङ्गारसागरोमिभिरक्षिभिः । दधौ कुसुमवन्मर्षि पितृपादनखत्विषः ॥ १०१९ ॥ राज्ञाप्युत्थाप्य पाणिभ्यामालिङ्गयोत्थाय च स्वयम् ।