________________
४२८
.
.
श्रीवर्भयावहारिविचितं. सि.४.९०३-९१४]. प्रभाववन्ति रनानि गृहीत्वा निःसृतः पुरम् ॥ ९०३ ॥ अजाननपि पन्मानं गच्छन्नेष निरन्तरम् । आरण्ये पतितः कापि तृष्णातरललोचनः ॥ ९०४॥ तत्र वस्त्रलनाबद्ध रबाली सुहृदः करे । रीणो ऽयमर्पयामास जीवितव्यमिवात्मनः ॥ ९०५ ॥ कापि पश्यम्पयः कूपे रनलोभाटिजेन सः । कराभ्यां पातितःप्रेय विश्वासः कोऽस्तु जीवनामा९०६॥ स तदा पतितः कूपे को ऽयमित्यशृणोद्वचः । उपलक्ष्य खरेणाथ माह रनवतीं मियाम् ।। ९०७ ॥ अयि त्वमपि कूपे ऽत्र पतितासि कुतः प्रिये । स ते परिजनः कास्ति धिम्पिग्विधिविडम्बितम् ॥९०८॥ साप्यवस्थागतं कान्तं वीक्ष्य प्राप्तं च संनिधौ । बाष्पं दशि दधौ दुःखानन्दसंकरसंकटम् ॥ ९०९ ॥ मन्वाना धन्यमात्मानं तत्रापि प्रियदर्शनात् । ऊचे सतीशिरोरत्रमियं रनवती ततः ॥ ९१० ॥ तत्सर्वमटवीमध्ये गृहीतमिह तस्करैः। कान्दिशीकः समयो ऽपि ययौ परिजनः कचित् ॥९११॥ तेषु मद्भोगलुब्धेषु वेगादहमिहापतम् । वरं हि-मरणं स्वीणां न पुनः शीलखण्डनम् ॥ ९१२ ॥ कृतान्तमुखरूपे ऽस्मिन्कूपे ऽपि पतिता मिय । जीवितास्मि भवद्वक्त्रालोकभोक्तव्यकर्मभिः ॥ ९१३ ॥ कथ्यतां च कथं पातः कूपे ऽत्र भवतामपि । सचिवः स च विद्वेषी विदधे किं विरोधतः ॥ ९१४ ॥ जगाद जिनदासो ऽथ सचिवे मारणोत्सुके ।