________________
स. ४. ८९१-९०२] वासुपूज्यचरितम्
४२७
• नृपः कृपापवित्रो ऽभूत्तत्र क्षत्रशिरोमणिः ॥ ८९१ ॥ तन्मन्त्रीशो वसुर्जज्ञे यद्बुद्धिभरनीरजे ।
राज्यलक्ष्मीः सुखं तस्थौ विकाशादये दिवानिशम् ॥ ८९२ ॥ जिनदासाभिधः श्रेष्ठी तस्य पृथ्वीपतेः प्रियः । बभूव तीर्थ कृद्धर्मधौरेयः श्रेयसां निधिः ।। ८९३ ॥ तदर्जितैरसंख्यातैः स्वर्णरत्नैरपि ध्रुवम् । निष्पाद्येते क्षितौ मेरुरोहणावपरावपि ॥। ८९४ ॥ यक्षराजी धनाध्यक्ष इत्येव ख्यातिमर्हति ।
दो जिनदासस्तु स स्तुतो ऽर्थिगणैरपि ।। ८९५ ॥ धनस्य सार्थवाहस्य सुतां काशिनिवासिनः । ख्यातां रनवतीं नाम्ना व्यवहारी व्युवाह सः ॥ ८९६ ॥ जिनदासस्य विश्वासपात्रं लक्ष्मीधराभिधः । विमो बभूव भ्रातेव चरमः परमः सुहृत् ॥ ८९७ ॥ न मन्त्री न कलत्रं न पुत्रो धात्रीपतेः पुनः । नान्यत्किंचिच तस्याभूज्जिनदास इव प्रियम् ।। ८९८ ।। मित्रे नृपः कदाप्यत्र मन्त्रितामपि दास्यति । राजमन्त्रीति तं हन्तुं विरुद्धं विदधे मनः ।। ८९९ ।। जिनदासस्तु दाक्ष्येण परचित्तोपलक्षकः । चक्षुर्वचोविकारेण तं विरुद्धमबुध्यत ।। ९०० ।। ततो भूपालमापृच्छय तीर्थयात्रापदेशतः । पत्नीं रत्नवतीं मैषीदसौ पितृगृहं प्रति ।। ९०१ ॥ अथ चौरच्छलेनासौ तमालब्धुं कृतादरः । मन्त्री निशि तदावासमार्ग भृत्यैररोधयत् ।। ९०२ ॥ मत्वेत्ति 'कर्मकृद्वेषः सह लक्ष्मीधरेण सः ।