________________
४२६ श्रीवर्धमानमूरिविरचितं [स.३.८८०-८९०]
चारित्रं शुदमासेव्य सौधर्मे ऽसौ सुरो ऽभवत् । मुदत्तस्तु विपद्यायमभवत्सचिवस्तव ॥ ८८० ॥ संपत्सु ह्रियमाणासु यद्धभञ्ज न पौषधम् । पदे पदे तदत्रायं विचित्राः प्राप संपदः ॥ ८८१ ॥ स तु चौरः सुरीभूतः स्मरनुपकृतीः कृती। चिन्तार्ताय ददौ रनं प्रस्तावं प्राप्य मन्त्रिणे ॥ ८८२॥ प्रभो द्रस्यति तं मन्त्रीत्युक्ते राज्ञा मुनि गौ । मन्त्रिणो जीवितान्ते तदर्शनं भावि मुक्तये ॥ ८८३ ॥ यतो नन्दीश्वरे देवानन्तुमस्याभिलाषिणः । समयज्ञसुरानीतविमानस्थस्य गच्छतः ॥ ८८४ ॥ शुद्धध्यानलयस्यान्तःकृतकेवलितायुजः । लवणाब्धेरुपर्येव मुक्ति प भविष्यति ॥८८५॥ युग्मम् ।। इत्याकर्ण्य मुनेर्वाचमुदश्चद्धर्मबुद्धयः । सर्वे ऽप्युर्वीश्वराद्यास्ते सानन्दा मन्दिराण्यगुः ॥८८६॥ एवं प्राक्पुण्यपूर्णद्धिमित्रानन्दनिदर्शनात् । भजन्तु भवपौषाय पौषधे सुधियो धियम् ॥ ८८७ ॥ . इति पौषधव्रतविचारे मित्रानन्दकथा ॥ दानं चतुर्विधाहारवस्त्रपात्रोकसां मुनौ । शिक्षात्रतं तदतिथिसंविभागं तुरीयकम् ॥ ८८८ ॥ एकावयवतो ऽप्येतत्सेवितं श्रद्धयाधिकम् । सुमित्राया इवोनत्यै जायते द्वादशं व्रतम् ।। ८८९ ॥
तद्यथा पृथिवीभूषा श्रीवसन्तपुराभिधम् । पुरन्दरपुरश्रीणां विवर्तों वर्तते पुरम् ॥ ८९० ॥ विक्रमाक्रान्तदिकक्रः क्षमाशको विक्रमाभिधः ।