________________
४२०
श्रीवर्धमानमूरिविरचितं [स.४.८१०-८२०]
व्रतं चेन्नाचरिष्यस्त्वं नाजीविष्यस्ततः पितः । त्वां विना नैव राज्यं मे ऽभविष्यत्याज्यवैभवम् ।। ८१०। तदद्यातुल्यकल्याणकारिणः पुण्यकर्मणः। फलं प्रत्यक्षमद्राक्षमहं पापापहं चिरात् ॥ ८११ ॥ सुकृतं जीवितव्यं ते व्रतेनानेन पोषितम् । शोषितं त्वत्कृतेनाद्य दुःकृतं दुर्यशश्च मे ॥ ८१२ ॥ तत्सहस्वापराधं मे प्रसीद वद सात्त्विक । धर्म कारय मां तात तारयाशु भवार्णवात् ॥ ८३॥ उवाच सचिवो ऽथेदं नापराधो ऽस्ति ते ध्रुवम् । यक्ष्माप सानुतापस्त्वं धर्मे धत्से ऽधुना धियम् ॥ ८१४ । ततः संलब्धमुद्रेण मन्त्रिणा प्रेरितो नृपः । जगृहे गृहिणां धर्म पूर्णचन्द्रगुरोः पुरः ॥ ८१५ ॥ मन्त्रिणः शन्मानो ऽथ निजे कण्ठे कुठारवान् । आयातः शूरसेनो ऽपि भूभुजां भूषितः श्रिया ॥ ८१६॥ देवार्चादानसुध्यानरथयात्रादिकर्मभिः । नृपो मन्त्र्युपदिष्टैः स्वं विदधे जन्मपावनम् ॥ ८१७ ॥ तत्र स्वामिनि बालो ऽपि चण्डालो ऽपि न सो ऽभवत् । न यो जिनाधिनाथोक्तधर्मकर्मठतां गतः ॥८१८॥ इत्थं मन्त्रीव भूपश्च कृत्वा धर्म विशुद्धधीः । महाविदेहे मर्त्यत्वं प्राप्य लेभे शिवश्रियम् ॥ ८१९ ॥ ततः सुमित्रदीपेन गमिते ऽस्मिन्प्रकाशताम् । देशावकाशिकपथे संचरन्तु मुखं बुधाः ॥ ८२० ॥ इति देशावकाशिकव्रतविचारे सुमित्रकथ॥ कुव्यापृतीनां स्नानादेस्त्यागो ब्रह्मव्रतं तपः ।