________________
(स.४.७९८-८०९] वामुपूज्यचरितम्
४१९ अस्मत्कार्यमिदं कुर्वन्नतुच्छच्छमसामना । . संहारितः प्रतीहारस्तेनासौ मन्त्रिणा ध्रुवम् ।। ७९८ ।। एतस्य यदि वृद्धस्य शिरश्छित्वा स्वपाणिना। उच्छालयामि छलिनस्तन्मे मनसि नितिः ॥ ७९९ ॥ एवमुच्चैर्लपन्गोपः कोपाटोपभटोत्कटः । तत्रागाद्यत्र ते सन्ति घाताता वेत्रिघातकाः ॥ ८०० ।। अमात्यभृत्या नैते स्युः के ऽपि वैदेशिका इव । इति ध्यात्वा नरेन्द्रस्तान्दीपदृष्टानभाषत ॥ ८०१॥ के यूयं किं हतो वेत्रीत्युर्वीनाथे ऽथ पृच्छति । ऊचुस्ते ऽमर्षदष्टोष्ठा वण्ठाः कण्ठागतासवः ॥ ८०२ ॥ किमस्मान्पृच्छसि माप दैवं पृच्छ दुराशयम् । अस्मदीशस्य येनैव चक्रे व्यर्थो मनोरथः ॥८०३ ॥ धरावासपुराधीशः शूरसेनः स्वसेवकान् । सुमित्रं मन्त्रिणं हन्तुं प्रैषीदस्मान्महेच्छया ॥ ८०४ ॥ यदयं दण्डयत्यस्मन्नेतारं प्रतिवत्सरम् । त्वामप्यस्मद्विभोः शत्रु सर्वदा पोपयत्यलाइ ।। ८०५ ।। स्वाम्यादेशादिहास्माभिर्बवन्धे ऽध्वाद्य मन्त्रिणः। कुतो ऽयमपतत्सिंहबन्धनं जम्बुको यथा ॥ ८०६ ॥ इत्युक्तिविकटावेशाः सुभटा प्रकटाशयाः। ते चत्वारो ऽपि पञ्चत्वं जग्मुस्तत्रैष घातकाः ॥८०७॥ नृपः कृतानुतापो ऽथ गत्वा पौरवरैर्वृतः ।। अमात्यं क्षमयामास बाहू धृत्वा वदनिति ॥ ८०८॥ मया ते ऽपि नृकल्पस्य कल्पितो यो ऽस्पबुद्धिना। त्वं क्षमा क्षमस्या समपराधमा माय ॥४०९ ॥