________________
श्रीवर्धमानसूरिविरचितं [म.४.७८६-१०] समाहयति वः स्मायी गुरुकार्यतयेत्यथ । नृपतिप्रतिहारस्तं तदागत्य व्यजिज्ञपत् ।। ७८६ ॥ आ प्रमाताद्गहबहिर्गतिप्रत्याख्यया स्थितः। . एष्यामि प्रातरित्युक्त्वा वेत्री प्रैष्यत मन्त्रिणा ॥७८७ ॥ ‘परमेष्ठिनमस्कारसुधासेकविवेकतः । पुनर्मानुषजन्म₹ सचिवः सफलं व्यधात् ॥ ७८८ ॥ समुपेत्य पुनर्वत्री मन्त्रीन्दुमिदमभ्ययात् । युष्मदुक्तैर्नृपः स्वाज्ञालोपाकोपान्धतामधात् ॥ ७८९ ।। इह मायाति मायातिचित्रधीः सचिवः स चेत् । 'तत्सर्वैश्वर्यमुद्रा मे याच्येति प्रजिघाय माम् ॥ ७९० ॥ इति श्रुतप्रतीहारव्याहारः सचिवो हसन् । तत्क्षणं प्रेषयन्मुद्रां दुःशीलामिव दासिकाम् ॥ ७९१ ॥ मन्त्री श्रेयसमुद्रो सिसमुद्रे सर्वतो गते । राज्यचिन्ताशल्यनाशादृढधर्मभरो ऽभवत् ।। ७९२ ॥ मुद्रां कौतुकतो वेत्री परिचाय करे तदा । मन्त्री जातो ऽहमित्यात्मपदातिषु जगौ हसन् ॥ ७९३ ॥ शनैर्मन्त्रिशिरोरत्न कुरु पादावधारणम् । इति हास्यमुखैः पुंभितो गेहाच्चचाल सः ॥ ७९४ ॥ तदैव दैवतः कैश्चिद्भटैः प्रकटितासिभिः । आहत्य पांतितो नीतश्चायं वार्तावशेषताम् ।। ७९५ ॥ त्रस्तशेषैस्तदा तस्य सुभटै निरे रयः । चेत्री हतो हत इति तुमुलश्च महानभूत् ॥ ७९६ ॥ इति धात्रीधवः श्रुत्वा क्रोषधूमध्वजोद्धरः । उच्चैल्पमनल्पं सज्वालाकरमकल्पयत् ।। ७९२७ ।।