SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ [स. ४. ७७४-७८५] वासुपूज्यचरितम् ४१७ निर्विघ्नैः स्वर्गमोक्षाणामपि सौख्यमवाप्यते ॥ ७७४ ॥ अथोचे सचिवो राज्ञा मम ज्ञापय मन्त्रिप | विघ्नोच्छित्त्याथ संपच्या प्रत्यक्षं धर्मजं फलम् ॥ ७७५ ॥ इत्युक्तिभाजं राजानं सचिवस्तमुवाच सः । त्वं नाथो ऽन्ये तु ते भृत्याः साक्षादेतद्धि तत्फलम् ॥७७६ ॥ ततो ऽमात्यं जगौ राजा पाषाणे द्विदलीकृते । भवत्येकेन सोपानं द्वितीयेन तु देवता ।। ७७७ ॥ कि तस्यैकदेशेन धर्मश्चक्रे परेण न । सिद्धा स्वभावाद्विश्वस्य भव्याभव्य व्यवस्थितिः ॥७७८॥ ॥ युग्मम् ॥ अथाह मन्त्री नाजीवो ग्रावात्र स्यान्निदर्शनम् । सति धर्मणि धर्माणां स्थापना युज्यते ततः ॥ ७७९ ॥ इत्युक्तस्तं नृपः किंचित्सवैलक्ष्यस्मितो ऽवदत् । अहं मन्त्रिन्वचः शक्त्या त्वया चक्रे निरुत्तरः ॥ ७८० ॥ परं प्रत्यक्षदृष्टेन प्रभावेणैव कुत्रचित् । निःसंशयं करिष्यामि धर्मं मन्त्रीश नान्यथा ।। ७८१ ।। इति प्रायस्तयोर्नित्यं संलापः क्षत्रमन्त्रिणोः । अजायत मजामध्ये प्रसिद्धिमधुरो ऽधिकम् ।। ७८२ ॥ निर्वर्त्य सर्वकृत्या न कदाचित्सचिवेश्वरः । पाक्षिकावश्यकं कर्तुं सायं स्वावासमासदत् ।। ७८३ ॥ गृहाद्वहिर्न निर्यामीत्यात्तदेशावकाशिकः । सत्यसंधो महामात्यः प्रत्याख्यानविधिं व्यधात् ॥ ७८४ ॥ आवश्यके कृते शुद्धश्रद्धानध्यानबन्धुरः । मन्त्रीश्वरो नमस्कारपरावर्तपरो ऽभवत् ।। ७८५ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy