________________
४०८
श्रीवर्धमान रिविरचितं ( स.४.६६९-६८०)
वीजयन्वसनान्तेन मक्षिका मुखपातिनीः ।। ६६९ ॥
|| त्रिभिर्विशेषकम् ॥
नमस्काराख्यमन्त्रेणाभिमन्त्रय मासुकं पयः । तं मुहुः स्मारयंश्चास्य सिषेच रसनामसौ ॥ ६७० ॥ सेके सेके व्यथाशान्तिर्विशेषं समजायत । क्रमात्तस्य क्षुधार्तस्य कवले कवले यथा ।। ६७१ ॥ निर्व्यथं निर्व्रणं नोरुग्निर्गन्धं च सुगन्धि च । मुहूर्तात्तन्मुखं जज्ञे क न धर्मः प्रभावभाक् ॥ ६७२ ॥ धर्मेणास्तः स रोगः श्रारमुक्तो वैद्यगणेन यः । भानुच्छेद्यं तमच्छेत्तुं खद्योताः क किल क्षमाः ॥ ६७३ ॥ राहुमुक्तं रविमिव प्राप्तपूर्वच्छाविच्छटम् ।
तं रोगमुक्तं वीक्ष्याभूल्लोकः सर्वो ऽपि सोत्सवः ||६७४॥ विशेषतस्ततस्तारे धर्मभारे सहोदरौ ।
तौ बभूवतुरुदासौ शरदीवेन्दुभास्करौ ॥ ६७५ ॥ श्रीभद्रबाहुराचार्यो saधिज्ञानमधिष्ठितः । कदापि तत्पुरोधानं द्यामिवेन्दुरभूषयत् ॥ ६७६ ॥ प्रदक्षिणात्रयेणोप भ्रमतुर्नेमतुश्च तम् । उपविश्य ततो धर्मदेशनां पपतुश्च तौ ॥ ६७७ ॥ सुरसे सुरसेनेन निपीते देशनामृते । अपृच्छयत गुरुर्भ्रातरसना रोगकारणम् ।। ६७८ ॥ स च प्रवचन क्षीरार्णववीचीनिभं वचः । उपाददे भवदवोद्भवक्लेशहरं गुरुः ॥ ६७९ ॥ भूभूषाभूतमाहूत पुरुहूतपुरप्रभम् । पुरं मणिपुरं नाम विद्यते विश्वविश्रुतम् ।। ६८० ॥