________________
.२२
श्रीवर्धमानसूरिविरचितं [स.१.२४५-२५६]
चतुर्दशाब्ददेशीयाः कामं विरहकातराः। खलान्त स्म सहेलं ते पुरि पौरप्रियश्रियः ॥ २४५ ॥ ते सज्जनमनस्तोषकारितुल्यक्रियास्त्रयः । साधोर्मनोवचःकायमपञ्चा इव रेजिरे ॥ २४६ ॥ कदाप्युद्यानमेदिन्यां ते ययुः कलिलालसाः । ददृशुश्च कमप्युद्यत्कायोत्सर्गस्थितं यतिम् ॥ २४७ ॥ प्रीतिमन्तो नमन्ति स्म ते यतेः पदयोः पुरः। उन्नमन्ति स्म लोकाग्रं यावत्पुण्येन वर्मणा ॥ २४८ ॥ पयःकणो ऽपतत्पृष्ठे वामनस्य नभस्यतः । मुक्तिसीमन्तिनीमुक्तलीलाकर्करकोपमः ॥ २४९ ॥ स चातक इवोत्पश्यः पश्यन्वारिलवागमम् । गलदश्रुजलं साधोरेकमीक्षणमैक्षत ॥ २५० ॥ निरीक्ष्य निपुणं दक्षः स्ववयस्याबुवाच सः । नेत्रं मुनेदुनोत्यस्य दृश्यतामेष कण्टकः ॥ २५१ ॥ मारुतोर्मिधुतो नूनमयमस्यापतदृशि । नाकृष्येत शरीरे ऽपि निरीहेणामुना पुनः ॥ २५२ ॥ अस्मत्करो ऽल्पकायत्वान्नैतदम्बकचुम्बकः । तत्कथं कण्टकः क्रष्टुं शक्यो ऽरिष्टमिवात्मनः ॥ २५३ ॥ रामो वामनमाचष्ट सखे मा खेदमुद्रह । चतुष्पदीभवाम्येष पाणिस्पृष्टमहीतलः ॥ २५४ ॥ मत्पृष्ठदत्तपादाग्रो वामन त्वमवामनः । भव हर्षगृहं कर्ष कण्टकं मुनिनेत्रतः ॥ २५५ ॥ अथ जग्राह संग्रामो व्यामोहद्रोहकृद्वचः । सखे निर्माहि कर्मेदमव्यग्रो मत्करग्रहात् ॥ २५६ ॥