________________
[स.१.२५७-२६८] वासुपूज्यचरितम् .
ततश्चतुष्पदीभूततनौं रामे कृतक्रमः । संग्रामहस्तविन्यस्तवामहस्तः स वामनः ॥ २५७ ॥ अहो कियन्मलार्दोऽयं संकुचनिति शूकया। अवामपाणिनाकर्षन्महर्षेः कण्टकं दृशः॥ २५८ ॥ युग्मम् ।। सुखसंचरणार्थ ते मुक्तिमार्गमिवात्मनः । कृत्वा निष्कण्टकं नेत्रं मुनेभुमुदिरेतराम् ॥ २५९ ॥ उपकारपरो न स्यात्कोऽप्यस्मान्क्षत्रियान्विना । इति गोत्रमदं दथ्यौ मुग्धत्वाद्वामनस्तदा ॥ २६०॥ कृतिनः कृतकृत्यास्ते नमस्कृत्य यतिं ततः। पुराय प्राचलन्वाचमिति चोवाच वामनः ॥ २६१ ।। नितानामिवेहापि येनानन्दो ऽजनिष्ट नः । अहो भविष्यति कियत्कर्मणो ऽस्याग्रतः फलम् ।। २६॥ आस्येन बहुहास्येन तदा रामो ऽकिरद्गिरम् इहाभूत्पशुरूपत्वं ममैतत्कर्मणः फलम् ॥ २६३ ॥ गामग्रहीच संग्रामो राम मा मैवमुच्यताम् । हास्योक्त्यापि भवत्येव पुण्यकर्म गलत्फलम् ।। २६४ ॥ यदस्य मुनिराजस्य नेत्रं निःकण्टकीकृतम् । राज्यं भवान्तरे भावि तदकण्टकमेव नः ॥ २६५ ॥ अथ प्रोन्मीलदुद्दामकामनो वामनो ऽवदत् । कामेयफलं ह्येतत्फलमानो ऽस्य नोच्यते ॥ २६६॥ इत्थं मिथः कथालापशालिनः प्रीतिमालिनः। अद्भुतं भावयन्तस्तत्कर्म हर्म्यमहीमगुः ॥२६७ ॥ अजातपौरपीडाभिः क्रीडाभिस्ते निरन्तरम् । वयस्या गमयामासुर्वासरान्धर्मभासुरान् ॥ २६८ ॥