________________
[स.१.२३३ - २४४] वासुपूज्यचरितम्
२१
सत्यां तस्यामपि प्रायस्तुच्छ पुण्यस्तु मानवः । कर्तुं न लभते धर्ममाधिव्याधिप्रमादतः ॥ २३३ ॥ निदानं सर्वसौख्यानां फलं मर्त्यत्वभूरुहः । विरलः कोऽपि शुद्धात्मा शश्वद्ध निषेवते ।। २३४ ॥ विरुद्धाचरणैः केचिदधन्या धर्ममप्यहो । विराधयन्ति दुर्बुद्धिबाधिता ह्यात्मवैरिणः ।। २३५ ।। आराद्धाच्च विराद्धाच्च धर्मादेव शुभाशुभे । लभते जन्तुरन्यत्तु मुख्यं किंचिन्न कारणम् ।। २३६ ।। इति निश्चित्य सत्कृत्यमावितत्य शुभात्मना । धर्मः संसेव्य एवैषो ऽतुल्य कल्याणजन्मभूः ।। २३७ ।। इत्थं तस्य मुनीशस्य तैः पपे वचनामृतम् । अतृप्तैरपि मूर्धानं धुनानैर्धर्मिभिर्नृभिः ।। २३८ ।। अथ पृथ्वीश्वरो ऽत्यर्थ सव्यथो हृदये दधौ । किं मया युगपद्धर्माधम पूर्वभवे कृतौ ।। २३९ ।। देवं देहवैधर्यं राज्यं चाप्यत तत्क्षणं । इन्द्रवारणनारङ्गसमास्वादनसादरम् || २४० ॥ युग्मम् ॥ इति ध्यात्वाधिकं धात्रीधवः साधुशिरोमणिम् । अपृच्छत्कायसंकोच भाग्यासंकोच कारणम् ।। २४१ ॥ ततो दन्तद्युतिच्छदृश्यधर्मद्रुपुष्पया । आसन्न मुक्तिफलया गिराप्रीणाज्जनं मुनिः ।। २४२ ॥ पुरं लक्ष्मीपुरं नाम शोणश्यामाश्मवेश्मभिः । पदं धर्ममुनेरस्ति महस्तिमिरमेलकृत् ।। २४३ || जज्ञिरे तत्र मित्राणि त्रयः क्षत्रियगोत्रजाः । रामवामनसंग्रामनामानः प्रीतिभाजनम् ॥ २४४ ॥