________________
२०
श्रीवर्धमानसूरिविरचितं [स.१.२२२-२३२]
अन्योन्यजन्तुसंवाससंमर्दोत्पीडपीडितः । जीवो ऽनन्तान्भवानेकेन्द्रिय एवात्र संवसेत् ।। २२२ ॥ उत्पत्तिनाशैस्तत्रैवाकामनिर्जरया चिरात् । सक्षिपेत्कानिचित्किचित्कर्माणि कथमप्यथ ॥ २२३ ॥ एवं तेषु निगोदेषु सो ऽनुभूय महाव्यथाम् । आयाति व्यवहाराख्यराशौ दैववशादिह ।। २२४ ॥ अत्यन्तस्थावरो ऽप्यत्र कथंचित्कर्मलाघवात् । मानुष्यमुत्तमं प्राप्यं भवे तत्रैव सिध्यति ।। २२५ ॥ प्रायेणान्यस्तु सर्वो ऽपि संसारे स्वस्वकर्मभिः । चतुरशीतिलक्षासु जीवो भ्राम्यति योनिषु ।। २२६ ॥ तथाहि ।
जन्मानि सप्तलक्षाः स्युः पृथ्वीका शरीरिणः । जले सप्तानले सप्तानिले सप्त स्वकर्मतः ।। २२७ ॥ द्विधा वनस्पतिर्ज्ञेयः प्रत्येकानन्तभेदतः । तत्राद्ये दशलक्षाणि द्वितीये तु चतुर्दश ।। २२८ ॥ द्वन्द्रिये त्रीन्द्रिये द्वे द्वे द्वे लक्षे चतुरिन्द्रिये । लक्षातस्रो निरये चतस्रस्त्रिदशालये ।। २२९ ॥ लक्षाश्चतस्रस्तिर्यक्षु मनुष्येषु चतुर्दश । वर्णाद्यैः सममेकं तदुक्तं स्थानं तु बह्वपि ।। २३० ॥ चतुर्भिः कलापकम् ॥ इत्थं भ्राम्यन्भृशं भाग्यैरात्माभ्येति भवे नृणाम् । आर्यक्षेत्रसुगोत्रायुरङ्गाक्षपटुतान्विते ।। २३१ ॥ न स्यात्तत्र गुरुप्राप्तिः सा चेतन्नागमश्रुतिः सापि चेतन जीवस्य हृदि श्रद्धा समुल्लसेत् ॥ २३२ ॥