________________
[स.१.२१०-२२१] वासुपूज्यचरितम्
प्रदत्तासंख्यदेशान्तः पृथ्वीनाथाज्ञमित्यदः । अनिशं तासु सीमासु भीमार्चिर्वज्रमस्फुरत् ।। २१० ॥ अन्यायवार्तामपि यश्चक्रे दध्यौ च तद्भुवि । तमेवाकम्पयद्वज्रमन्यायकरकायभित् ।। २११ ॥ तस्य विभ्रद्भिरित्याशामाशङ्कां च प्रथीयसीम् । आज्ञा मूर्ध्नि दधे कामं तत्सीमावासिभिर्तृभिः ॥ २१२ ॥ वज्रसंचारनिश्चिन्तो बहुदेशमहीपतिः । श्री पुण्यादयः सुखं तस्थावित्यं स्वर्गे हरिर्यथा ॥ २१३ ॥ हृष्यन्नेत्यावनीपालं वनीपालः कदापि तम् । अवतंसीभवत्पाणिपङ्क-जश्रीर्व्यजिज्ञपत् ।। २१४ ॥ 'स्वामिभेतत्पुरस्वामी तपनस्तपसि स्थितः । आजगाम तवाराममवधिज्ञानभानुमान् ।। २१५ ॥ इत्याकर्ण्य श्रियः कर्णाभरणं धरणीपतिः । मुदितो दन्तिराजं तमारुह्योद्यानमासदत् ।। २१६ ॥ महामुनिमिहानम्य निविष्टो हृष्टहृन्नृपः । तातिः करीन्द्रो ऽपि तस्थौ वचनगोचरे ॥ २१७ ॥ पुरस्य पुरभर्तुश्च प्रधानपुरुषैः क्रमात् दूरं मुनिसभापूरि भूरिभिद्यैरिवोडुभिः ।। २१८ । ततः श्रुतसुधाम्भोधिविहरल्लहरीनिभाम् । निर्ममे निर्ममेशो ऽयं निर्मलां धर्मदेशनाम् ।। २१९ ॥ इहानादौ भवे ऽनादिजीवो ऽनादिस्वकर्मतः । अव्यवहारराशौ स्याद्दुःसहग्रहद्दुःखभाक् ॥ २२० ॥ असंख्या ह्यत्र गोलाः स्युर्गोलो ऽसंख्यनिगोदकः । एकैकस्मिन्निगोदे स्युरनन्ता जन्तवः स्थिरः ॥ २२१ ॥
१९