________________
१८
श्रीवर्धमानमरिविरचितं स.१.१९८-२०९] करी सर्वाभिसारेण ततो रोधि विरोधिभिः । रजनीसमयोद्धान्तैर्ध्वान्तैरिव वियत्पथः ॥ १९८ ॥ इत्यस्मिन्संकटे तिष्ठन्पुण्याढयनृपतिर्जनैः । किमध्यासि करीशेण राज्ये ऽसावित्यशोच्यत ॥ १९९ ॥ तृणमप्यात्महस्तेन कुरु शस्त्रं रिपूञ्जय । तदेत्युवाच पुण्याढयमदृश्या भाग्यदेवता ॥ २० ॥ तदैव दैवतस्तस्य मारुतप्रेरित करे । अरोहच्च तृणं शत्रौ शस्त्रमित्यक्षिपच्च सः ॥२०१॥ अथाशु स्फूर्जदूर्जस्विस्फूर्जथुस्फोटिताम्बरम् । लोलकीलाकुलौद्धत्यधगदिग्मण्डलोदरम् ॥ २० ॥ कम्पमानाचलचयं भयभुग्नजगत्रयम् । तृणमप्यभवद्वज्रं व्योम्नि पुण्याठ्यपुण्यतः ॥२०३॥युग्मम्।। यो न नंस्यति पुण्याढयं तत्र वज्रं पतिष्यति । . इत्यभूच नभोवाणी भूपभाग्याधिदैवतात् ॥ २०४ ॥ इत्युदन्तेन दन्तेषु नृणामीशास्तृणान्यधुः।। नृपं नेमुश्च पुण्याढयमहो पुण्यमहोदयः ॥ २०५॥ दासस्ते ऽस्मीति जल्पन्तं कल्पयन्तं मुहुः स्तुतिम् । लुठन्तं भूतले भूपो ऽनुजग्राह धनावहम् ॥ २०६ ॥ पुरं प्रविशतस्तस्प राज्ञो ऽथ जितकाशिनः । प्रथीयानरिवारो ऽपि परिवारो ऽभवत्तदा ॥ २०७॥ पुण्याढ्यभूपतेराज्ञां राज्ञां मूर्धन्यतन्वताम् । प्राणनाशार्थमाशासु कुलिशं विलसत्यदः ॥ २०८ ॥ इत्यम्बरगिरा साक साकम्पभुवनत्रयम् । दुरादसंख्यदेशेषु दिवि तद्वज्रमभ्रमत्।। २०९ ॥ युग्मम् ।।