________________
[स.१.१८६-१९७] वासुपूज्यचरितम् :
अभूत्पुण्याढयभूपस्य भूपसझैव केवलम् । ययौ राज्यं समस्तं तदर्धराज्यहरे नरे ॥ १८६ ॥ भद्रासनैकभक्तात्मा मध्ये ऽपि भुजभृद्गणः । को ऽपि स्यादिति संनद्धबलजालश्चचाल सः ॥ १८७ ।। आधोरणाग्रणीस्तस्य वारणाधिपतेस्तदा । पाञ्जलिर्जगतीजानि विजयाय व्यजिज्ञपत् ॥ १८८ ॥ जयत्येव रणोत्सङ्गसंगतो ऽसाविभो विभो । अस्मिन्नारुह्यतामाशु मुह्यतांमासुहृद्गणैः ॥ १८९ ॥ एवमस्त्विति जल्पन्तं गोपमारोपयद्विपे । हस्तिपालस्तदाकाल इव पूर्वाचले रविम् ॥ १९० ॥ अथायमचलद्योढुमचल श्रीरिभप्रभुः । अवेपिनो भटाः के ऽपि पट्टभक्ताः पुरो ऽभवन् । १९१॥ शौर्यलक्ष्मीनटीनाट्यारम्भसंभ्रमभृत्ततः । अमिलत्तुमुलोत्तालं तालवत्तद्वलद्वयम् ॥ १९२ ॥ विपक्षासिपहाराणां हाराणामिव पातिनाम् । सज्जीचक्रुः शरीराणि वीरश्रीलम्पटा भटाः ॥ १९३ ॥ गायत्कोदण्डदण्डज्यो नदविरदमर्दलः । नृत्यद्वीरकबन्धो ऽयं बन्धुरो ऽभूद्रणक्षणः ॥ १९४ ॥ भटान्पुण्याढ्यभूभर्तुः क्षणेनाथ द्रुमानिव । उन्मूलयद्भिः प्रसृतं द्विट्पूरैः सिन्धुयूरवत् ॥ १९५॥ हस्ती न हन्त हन्तव्यः पङ्गुरेवैष हन्यताम् । . इत्यूर्ध्वपाणिरवदत्तदा धीरान्धनावहः ॥ १९६ ॥ क्षीणोपान्तस्वसैन्यो ऽपि दुर्धर्षो ऽथ करीश्वरः। . रिपुसैन्यं ममन्थासौ दधि मन्थानको यथा ॥१९७॥