SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ (स.४.५६४-५७४) वासुपूज्यचरितम् सिंहः श्रुत्वेत्यथ क्रोधावहित्यविहितस्मितः । ऊचे अतो नृणां पत्युः प्रत्युत्पन्नमतिः कृती ॥ ५६४ ॥ स्वामिन्नसहमानस्ते विरहं निरहंकृतिः। अकार्षमुत्तराण्येवं देवादेशः शिरोमणिः ॥ ५६५॥ नृपः प्रीतो ऽथ तद्वाचा विवाहाय व्यहारयत् । महासैन्यमहामन्त्रिमहाभटयुतं सुतम् ॥ ५६६ ॥ पृथग्भूतमिवात्मानं सुहृदं हृदयप्रियम् । नृसिंहः सिंहमकरोत्तत्र सर्वक्रियागुरुम् ॥ ५६७ ॥ कृतयात्रस्ततः सिंहो गुप्तसंवेगवाग्भरैः।। अत्रोटयत्कुमारस्य संसारावासवासनाम् ॥ ५६८ ॥ व्यक्तमुक्तिवधूलोभः शोभमानः श्रियोऽय सः। तृणवद्गणयामास महीवासवनन्दनः ॥ ५६९ ॥ कृतव्याजोत्तरः श्रेष्ठी दिग्विरामव्रतस्थितः । न योजनशताच स प्रयाणमकारयत् ॥ ५७० ॥ यात्राविरामाद्यातेषु पञ्चषेषु दिनेष्वथ । कुमारमूचुः सचिवा रहसि प्रहसगिरः ॥ ५७१ ॥ यात्रां कुत्रापि सिंहश्चेनिषेधति विधिच्छलात् । तद्भलादपि कुर्वन्तो न यूयमपराधिनः ॥ ५७२ ॥ इत्यस्मानशिषद्गुप्तं प्रयाणसमये नृपः। तद्भवाप्यधुना सिंहं यामो नागपुरं न किम् ॥ ५७३ ॥ ॥ युग्मम् ॥ इत्यात्तवाचः सचिवानचष्ट नृपनन्दनः । श्वः कर्तव्यमिदं यात्रा नाध नियते यदि ॥ ५७४ ॥ अथैकान्ते महीकान्तजन्मा तन्मानसाप्रियम् । .
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy