________________
[स.४.५४०-५५१] वामपूज्यपारितम्... ३९०
तस्मात्पुत्रादपि स्वेभ्यः प्राणेभ्यो ऽप्यतिवल्लभः। : तत्र मित्रं महीभर्तुः श्रेष्ठीन्दुः सिंह इत्यभूत् ।। ५४०। जिनभक्तिर्जिनमतज्ञानं तद्धर्ममिर्मितिः । इति सारमलङ्कारत्रयं शश्वद्दधार सः॥ ५४१ ॥ .. तदीयवदनन्यस्तनेत्रं वेत्रभृतां वरः। कदाप्युदारसदसं तं महीशं व्यजिज्ञपत् ॥ ५४२ ॥ देव दिव्याकृतिारि कोऽप्यास्ति नरपुङ्गवः ।। चक्षुर्भवन्मुखाम्भोजे भ्रमरीकर्तुमुत्सुकः ॥ ५४३ ॥ अथैष वेत्रभृद्भपभ्रूपल्लवकसंज्ञया । आशु प्रवेशयामास तं पुमांसं सभामुवि ॥ ५४४ ॥ कृती कृतनमस्कारः संनिविष्टो ऽथ विष्टरे । वच सुधाभिः स्नपयामास भूवासवश्रवः ॥ ५४५ ॥ जानासि जगतीनाथ विरोधिकाथकृन्महाः । श्रीनागचन्द्र इत्यस्ति पुरे नागपुरे नृपः ॥ ५४६ ॥ तस्य प्रियास्ति प्रस्ताववाच्या सुरवधूक्तिषु । मकरध्वजारकपञ्जरी रत्नमञ्जरी ॥ ५४७ ॥ कामभूभर्तुरस्तित्वमुच्चरस्ति तयोः सुता । विश्रुता गुणमालेति गुणमालेच देहिनी ॥ ५४८ ॥ तदङ्गसंगता लक्ष्मीः साक्षालक्ष्मीमुपाहसत् । स्फुरदम्भोजकुम्भीन्द्रकुम्भद्वन्देन्दुवासिनी ॥ ५४९ ॥ तारुण्यचारवे तस्यै वरान्ध्यायन्धराधिपः । त्वत्सुतं निश्चिकायैव प्रभायै भास्करं यथा ॥ ५५० ॥ इत्यर्थमभ्यर्थयितुं त्वयि मामीश मे प्रभुः। विश्वासभाबनीभूतं मुख्यदूत नियुक्तवान् ॥ ५५१ ॥