________________
३९६ श्रीवर्धमानसूरिविरचितं [स.४.५२८-५३९]
तदन्तरारिभङ्गे ऽपि भवत्ययमुपक्रमी ॥ ५२८ ॥ इति संचिन्त्य शृङ्गारसुन्दरीकुक्षिसंभवम् । सुतं शृङ्गारसेनं खे पदे विद्यापतिबंधात् ॥ ५२९ ॥ पुरः संयमसूरीणामूरीकृत्य व्रतं स्वयम् । कल्याणमयमात्मानं शुद्धं चक्रे तपोग्निना ॥ ५३० ॥ पूरितायुरियाय द्यां विद्यापतियतिस्ततः । मामय॑भवैर्भजे पञ्चभिः परमं पदम् ॥ ५३१ ॥ तद्विद्यापतिदृष्टान्तविद्यानिश्चलचेतनः । भाव्यं भव्यजनैर्धर्मस्पृहैर्मितपरिग्रहैः ॥ ५३२ ॥ इति परिग्रहप्रमाणव्रतविचारे विद्यापतिकथा ।
दशदिक्क्लुप्तसंचारे सीमानुल्लङ्घनं पुनः । प्रथमं प्रथयन्ते दिग्विरत्याख्यं गुणवतम् ॥ ५३३ ॥ पापद्विपदुरुत्थानपातसंवर्तगर्तिका। इदं भाति व्रतं धर्मधात्रीशकनकासनम् ॥ ५३४ ॥ उच्चैर्धर्मप्रसूनस्य शाखी दिग्विरतिव्रतम् । नृणां यदधिरूढानां न पापश्वापदाद्भयम् ॥ ५३२ ॥ गतौ संकोचयत्येव यः स्वं दिग्विरतिव्रती । संसारलड्डनोत्तालफालारम्भः स सिंहवत् ॥ ५३६ ॥ . तथाहि द्रङ्गप्रस्तारेष्वस्ति सर्वगुरुः पुरी । वासन्तीति श्रुता चित्रमवक्रगुणपूरिता ॥ ५३७ ॥ कीर्तिपाल इति क्षोणिपालस्तस्यामजायत । यत्कीर्तिकन्याकेलीषु वियदड़ो ऽपि संकटः ॥ ५३८ ॥ रूपश्रीस्पर्शसंलुब्धैरिवाशेषैतो गुणैः । ननन्द नन्दनः श्रीमान्भीमाख्यस्तस्य भूपतेः ॥ ५३९ ॥