SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ -..., . [स.४.५१६-५२७] वासुपूज्यचरितम् स स्वं मेने ऽम्बुदोन्मुक्तं राहुग्रस्तमिवोडुपम् ॥ ५१६ ॥ भद्रपीठाश्रये तस्मिन्नभिषेकं निषेधति । । विलक्षे मन्त्रिलक्षे ऽय दिव्यभूदिव्यभारती ॥ ५१७ ॥ अयापि विद्यते भूरि कर्मभोगफलं तव । तदङ्गीकृत्य राज्यश्रीरुत्संगीकुरु संमदम् ॥ ५१८ ॥ स्वभाग्यदेवतावाचमित्याकर्ण्य स वय॑धीः । सिंहासने निशस्य प्रतिमा विन्यवीविशत् ॥ ५१९ ॥ धर्मज्ञैर्मन्त्रिभिः प्रीतैः पादपीठोपवेशनः । जिनदास्याभिषेकं स स्वस्मिन्धीमानकारयत् ॥ ५२० ॥ सुधीः संधारयन्भुक्तमात्रं स्वस्मै परिग्रहम् । । समस्तं जिननामाई वस्तुचक्रमचीकरत् ॥ ५२१ ॥ नित्यं यात्रोत्सवं तत्र स पवित्रमनाः प्रभोः । अभूतवित्तव्ययतः कारयामास कृत्यवित् ॥ ५२२ ॥ भूरिययको तस्मिन्न गृह्णाति करं जनात् । तद्भाग्यदेवजावर्षन्नित्यं रत्नैर्नृपौकसि ॥ ५२३ ॥ धर्माधीनो ऽयमित्येतं जेतुं जातोयमा नृपाः । जिनाधिष्ठायिभिर्य रोगमुत्पाद्य नाशिताः ॥ ५२४ ॥ विकटं कटकारम्भं शक्तिस्तम्भं च विद्विषाम् । ज्ञात्वाथ हर्षहृयात्मा विद्यापतिरचिन्तयत् ॥ ५२५ ॥ अहो ये शक्रविक्रान्तिभाजस्ते ऽप्यरिभूभुजः। धर्मप्रभावादुःकीर्तिनिलयं विलयं ययुः ॥ ५२६ ॥ मां धर्मः कलयन्सेक्मानमल्पपरिग्रहम् । महापरिग्रहाशत्रूञ्जेतुं भेजे सहायताम् ॥ ५२७ ॥ तदहं यद्यदु सेवे त्यक्ताशेषपरिग्रहः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy