SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमानसूरिविरचितं [स.४.५०४-५१५] तादृग्भिर्दानमुकृतैः कृतैवाहं त्वयि स्थिरा ॥ ५०४ ॥ अत्यर्थ पुण्यपापानामिव फलमश्रुते । इति सूतं त्वयाकारि मतिसार यथातथम् ।। ५०५ || कदाचन न मुञ्चामि तदहं सदनं तत्र । यथेच्छं भाग्यभङ्गीभिरुत्संगीकृत भुङ्क्ष्व माम् ||५०६ ॥ विनिद्रः कथयित्वाथ निशीथे स्वमसंकथाम् । स प्रिया प्रतिकलीलापदभिदं जगौ ॥ २०७ ॥ श्रीदानव्यसनेनैव भोगमात्रफलेन हा । जन्म यास्यति नौ मुक्तिफलेन तपसा विना ॥ ५०८ ॥ कदापि लोभलीलाभिललितं लोलुभं मनः । पञ्चमत्रतपञ्चत्वमपञ्चमपि संसृजेत् ।। ५०९॥ पूरितं वित्तपूरेण तत्परित्यज्य मन्दिरम् | कचिदेशान्तरे यावच्छुटावः श्रीमहाग्रहात् ॥ ५१० ॥ इति निश्चित्य स तया सहागच्छद्बहिर्गृहात् । श्रीकेलिकोमलान्नक्तं कमलादिव षट्पदः ॥ ५११ ॥ करण्डमण्डिनीं बिभ्रत्तीर्थेशप्रतिमांमसौ । स्मरन्पञ्चनमस्कारान्नगरद्वारमास्थितः ।। ५१२ ।। मृते शूलादपुत्रे ऽथ शूराख्ये तत्पुरीपतौ । मन्त्रिभिः कल्पितो दिव्यहस्ती तत्रापतत्तदा ।। ५१३ ।। तं पुण्यकलशाम्भोभिरभिषिच्य प्रियान्वितम् । पृष्ठमारोपयामास करेण करिणां वरः ॥ ५१४ ॥ निन्ये महोत्सवेनाथ करीश्वरशिरः स्थितः । राजसौधाय हृष्यद्भिर हृष्यन्सचिवैरसौ ।। ५१५ ।। श्री पङ्कान्निःसृतं राज्यमहापङ्कत्रपातिनम् । ३९४ Maa A
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy