________________
[सं.४.४७०-४८०] वासुपूज्यचरितम्
निषिध्यमानमप्यर्थं दद्याद्वियापतेरिव ।। ४७० ॥
३९१
युग्मम् ॥
श्राद्धाः शृणुत तद्वृत्तमभूदुद्वृत्तवैभवः । धनी विद्यापतिरिति ख्यातः पोतनपत्तने ॥ ४७१ ॥ सर्वज्ञसेवको suयेष निजसमश्रियामपि ।
संख्यातिं ज्ञातवान्नैव ज्योतिषी ज्योतिषामित्र ॥ ४७२ ॥ तस्याजनिष्ठ गृहिणी स्पृहणीयगुणोदया । जिनेशशासनाम्भोजभृङ्गी शृङ्गारसुन्दरी ।। ४७३ ।। सप्तक्षेत्रयां वर्षान्वितमनन्तगुणलाभधीः । प्रयत्नेन यथाकालं वृषपोषं चकार सः ॥ ४७४ ॥ धनमर्जयतो नित्यमृणं तर्जयतः सताम् । धर्मकल्पयतः काममघमल्पयतः परम् || ४७५ ॥ सुखोर्मिमयमेवोचैरह्रां गभ्यतो गणम् । स्व कापि कदापि स्त्री पुरस्तस्येदमभ्यधात् ||४७६ ॥
युग्मम् ॥
श्रीरहं त्वगुणश्रणशेति त्वां ब्रवीम्यदः । कृष्टा दैवेन यास्यामि त्वद्गुहाद्दशमेऽहनि ।। ४७७ । अयोनिद्रं दरिद्रो ऽहं भविष्यामीति दुःखितम् । तमुवाच करद्वन्द्वशृङ्गा शृङ्गारसुन्दरी || ४७८ || रवे रथ इव ध्वान्तं तव मालिन्यमानने । अदृष्टपूर्वं यत्तत्किम विलोक्यते ।। ४७९ ।। त्वया कृतास्मि स्नेहेन सुखसर्वस्त्र भागिनी । दुःखभाग दावे ऽय किं मां वञ्चयसि प्रभो ।। ४८० ॥ पत्त्या स्वस्वरूपेऽथ कथिते प्रथितस्मिता ।