SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३९२ _ श्रीवर्धमानमूरिविरचितं [स.४.४८१-४९२] ~r.raamwwwww.rrrr. सा पुनर्भारती भेजे विवेकामृतसारणीम् ॥ ४८१ ॥ निर्वाणमार्गसंचारचरणस्खलशृङ्खला । हृच्छल्यं श्रीः सतां भोगफलकर्मचिरस्थिरा ॥ ४८२ ।। मदयेन्मदिरेव श्रीर्यदि सा याति यातु तत् । विवेक एक एव त्वां मा मुश्चन्मदमर्दनः ।। ४८३ ॥ पात्रदानं फलं लक्ष्म्यास्तद्गहीतं बहु त्वया । फलं संप्रति दौःस्थ्यस्य तपो ग्राह्यं ततो ऽधिकम् ॥४८४॥ मुक्तिमार्गकृतिलक्ष्मीर्भाग्यैस्ते भङ्गमेति चेत् । तत्कि हर्षपदे नाथ दुःखं भजसि निर्भरम् ॥ ४८५ ॥ गमिष्यति कथं वा श्रीसेरी दशमे ऽहनि । स्वायत्तैव सती सप्तक्षेत्र्यामद्यैव रोप्यताम् ॥ ४८६ ।। परिग्रहप्रमाणाख्यमङ्गीकृत्य व्रतं ततः । स्थीयते नीयते चैष काल: संतोषपोषकः ॥ ४८७ ।। इति प्रियोक्तिभिः प्रीतः प्रातःकृत्यपुरःसरम् । सप्तक्षेत्र्यां क्षणादेष निःशेषमवपद्धनम् ॥ ४८८ ॥ ततः स्थापितदेहोपयोगिस्वल्पपरिग्रहः ।। मध्यंदिने जिनाधीशमभ्ययेदं बभाण सः ॥ ४८९ ॥ गृङ्गारसुन्दरी भार्या शय्यैका वसने उभे । एकं पात्रमहर्षीज्यमात्रश्चाहारसंग्रहः ॥ ४९० ॥ एकद्विसंख्यमल्पार्थमन्यदप्यात्महेतुकम् । अस्तु मे वस्तु तीर्थेश सेवाह त्वस्तु बदपि ॥ ४९१ ॥ ॥ युग्मम् ।। परिग्रहं प्रमायेति प्रमोदविशदाशयः। स निनाय दिनं धीमान्धर्मध्यानधुरन्धरः ॥ ४९२ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy