________________
३८६ - श्रीवर्धमानसरिविरचितं [स.४.४११-४२२]
तुष्टं यक्षं विरूपाक्षं बने ऽभ्यर्थयताग्रहात् ॥ ४११ ॥ नन्दयोक्तो यथा दीपस्त्वं तथा भव मद्गृहे । इति यक्षेण दत्ते ऽर्थे स ययौ श्रेष्ठिनो ऽन्तिके ॥ ४१२ ॥ कितवाय दरिद्राय नन्दिनी स्वां ददासि मे।
अभिप्रहमहं तस्या हन्त पूरयितुं क्षमः ॥ ४१३ ॥ याक्ताग्मा त्वं भोः पूरिताभिग्रहो यदि । तते ददाम्प पुत्री गङ्गामित्र पयोधये ॥ ४१४ ॥ तर्हि मद्गहमागत्य दीपस्तादृग्विलोक्यताम् । इत्युक्ते तेन स श्रेष्ठी सकुटुम्बस्तथाकरोत् ॥ ४१५ ॥ दारियोपद्रुते ऽप्यस्य गृहे तादृशमेव सः। दीपं पश्यन्मुतोद्दाहसोत्साहः पाप संमदम् ।। ४१६ ॥ ताइग्दीसमालोककौतुकोत्तानलोचनः । जनो ऽननिष्ट नन्दा तु निरानन्दाभवत्तदा ॥ ४१७ ॥ विभवैभवनं तस्य विभूष्याथ वणिग्वरः । उत्सवोत्संगितपुरः पुत्रीं तेन व्यवाहयत् ॥ ४१८ ॥ परिणीयापि तां तन्वीं विवेकामृतदीर्घिकाम् । द्यूतान्यवर्तत न स व्यसनं कस्य सुत्यजम् ॥ ४१९ ॥ अहारयदयं वित्तं द्यूतकारो यथा यथा । अपूरयत स श्रेष्ठी पुत्रीप्रेम्णा तथा तथा ॥ ४२० ॥ हारयित्वापि वित्तानि रत्वापि बहिरङ्गनाः । गृहं प्राप्तः स सानन्दं नन्दया पर्यचर्यत ॥ ४२१ ॥ अचिन्तयदिदं चैष नाहमस्या ध्रुवं प्रियः । यदित्यमपराधे ऽपि मयि रोषं तनोति न ॥ ४२२ ॥ सो ऽन्यदा हारिते त्रस्तः कितवेभ्यो वने विशत् ।