________________
[स.४. ४२३-४३४]
वासुपूज्यचरितम्
३८७
दृष्ट्वा ज्ञानिनं साधुं पप्रच्छ रचिताञ्जलिः ॥ ४२३ ॥ किं सा शुभस्वभावापि धत्ते चित्ते न मां प्रिया । इति पृष्टे ऽस्य योग्यत्वं ज्ञात्वा ज्ञानी मुनिर्जगौ ॥ ४२४|| सा विवेकवती कान्तमपीच्छन्ती विवेकिनम् । विवेकं तद्गुणं व्याख्या ताग्दी पापदेशतः ॥ ४२५ ॥ निगद्यते ऽञ्जनं माया नवतत्त्वस्थितिर्दशा ।
स्नेहव्ययः प्रेमभङ्गः कम्पः सम्यक्त्व खडनम् ॥ ४२६ ॥ तैर्विमुक्तं विवेकं यो धत्ते ऽस्तु स पतिर्मम | इति दीपच्छलादाख्यत्पृष्टा नार्थे तु केनचित् ॥४२७॥ निरञ्जनं दशोन्मुक्तमस्नेहव्ययमन्वहम् ।
विकम्पं दीपमेव त्वं कृतवानद्भुतं गृहे ॥ ४२८ ॥ तादृक्षं वीक्ष्य सा दीपं सती भग्नोत्तरा सती । हिया मौनवती व्यूहे भवताप्यविवेकिना ।। ४२९ ॥ सतीति परिणेतुस्ते दृष्टिस्थाने न हृष्यति । अविवेकीति सा चित्ते न धत्ते त्वां विवेकिनी ॥४३०॥ साध्वादिष्टं विवेकं स स्वीचक्रे ऽथ विशेषतः ।
व्रतं स्वदार संतोषं जगृहे स्नेहपुष्टिदम् ॥ ४३१ ॥ मुदा गत्वा गृहे स्नात्वा पूजयित्वा जिनाधिपम् । दत्त्वा दानं सुपात्रेभ्यो बुभुजे ऽसौ यथाविधि ।। ४३२ ।। विवेकिनमिवालोक्य मुदा कान्तमथाक्दत् ।
नन्दा मन्दाकिनी नीरशुचिना वचनेन तम् ॥ ४३३ ॥ जिनेन्दुसेवया शीलसलिलव्यक्तसिक्तया ।
अद्य मे फलितं नाथ यद्दृष्टोऽसि विवेकवान् ॥ ४३४ ॥ ना गिलो ऽपि जगौ तन्वि यन्मुक्त्वा व्यसन मया ।