________________
श्रीवर्धमानमूरिविरचितं [स.४.३८९-३९९] किंच पात्रं न दानाहमहं तत्ते धनं ध्रुवम् । न गृह्णामीति जल्पन्तं सार्थपं खेचरो जगौ ॥ ३८९ ॥
॥त्रिभिर्विशेषकम् ॥ अहं त्वदुपदेशस्य नेहानृण्यं भवे भजे । तत्स्वमायाकृते कार्ये कथं गृह्णामि ते धनम् ॥ ३९० ॥ मद्धनं त्वं न गृह्णासि नाददे ऽहं तु ते धनम् । ततः सार्थेश का स्वामी श्रियामासां भविष्यति ॥ ३९१ ॥ सो ऽप्याह धर्म एवैकः प्रभुस्त्रिभुवनश्रियाम् । यस्मै यस्मै प्रदत्ते स तस्य तस्य भवन्ति ताः । ३९२॥ तदेहि यावः सर्वत्र धर्मे सर्वज्ञदर्शिते । विश्वस्वामिनि विन्यस्य कृतार्थी कुर्वहे श्रियम् ॥ ३९३ ।। वचस्यङ्गीकृते तेन खेचरेण प्रमोदिना। ददतुर्मुदितौ वित्तं सप्तक्षेत्र्यामुभौ शुभौ ॥ ३९४ ॥ ततो गुणधरः विस्वा भवै धर्मैः सुखादसौ। लक्ष्मीपुञ्ज प्रभापुञ्ज पुण्यपुञ्जो भवानभूत् ॥ ३९५ ॥ तच्छिक्षयैव सूर्यो ऽपि त्यक्तस्तेयो धनं ददत् । पूर्णायुः पुण्यमानेन जातो ऽस्मि व्यन्तराधिपः ॥ ३९६ ।। त्वद्भाग्यदेवताशक्तिनुन्नो गर्भात्मभृत्यपि । अपूरयं रयाते ऽहं कालकालोचितं हितम् ॥ ३९७ ॥ - इति व्यन्तरवागन्ते मूर्जमाप्य प्रबोधमाक् । संजातजातिस्मरणो लक्ष्मीपुञ्जः पदं सदाम् ॥ ३९८ ॥ विशुद्धं धर्ममाराध्य लब्ध्वा देवत्वमच्युते । स्तुत्यं वितत्य मर्त्यत्वं श्रेयःश्रियमशिश्रियत् ॥ ३९९ ॥
.... ... ॥ युग्मम् ।।