________________
[स.४.३७७-३८८] वासुपूज्यचरितम् .. ३८३
नृरत्न रत्नमालां ते निधिं चाहमदर्शयम् । . न जितस्त्वं तु लोभेन वस्तूनां महतामपि ॥ ३७७ ॥ कृत्वा वाहं मृतं पादगत्या तृष्णातुरस्य ते । मयाम्भो दर्शितं शीतं कीरमरणयान्वितम् ॥ ३७८ ॥ कार्ये वर्यतमे मोठे प्राणरक्षणलक्षणे । लोभेन न पराभूतस्त्वमल्पस्यापि वस्तुनः ॥ ३७९ ॥ तमित्युक्त्वा निजान्सूर्यः खेचरानयमाह्वयत् । तत्रासीरनश्यास्ते बभूवुः प्रकटाः पुरः ॥ ३८०॥ एभिः सूर्यः समानीय मणिमालां निधि हयम् । अन्यच्च प्रचुरं द्रव्यं सार्थपस्य पुरो ऽमुचत् ॥ ३८१ ॥ सधनाभ्यं तथा सार्थे सार्थेशविरहार्दिते । स निनाय जनप्रीतिकरं गुणधरं क्षणात् ॥ ३८२ ॥ किमेतद्धनमित्युक्तः सार्थपेनाथ सो ऽवदत् । किंचिन्मदीयं किंचिच कौतुकाजनतो हृतम् ॥ ३८३ ॥ चौर्य तातस्य राजर्बोधैर्मुक्तं न यन्मया । तत्त्वद्वतावलोकेन स्वयमेवाद्य तत्यजे ॥ ३८४ ॥ इत्थं त्वं मे गुरुस्तत्ते ऽर्चायामेतद्धनं कृतम् । इति जल्पपरं विद्याधरं गुणधरो ऽभ्यधात् ॥ ३८५ ॥ धनं यस्य हृतं यत्तत्तस्मै देहि तमश्छिदे । इत्युक्तस्तत्तथा वाक्यं सूर्यश्चक्रे स्वसेवकैः ॥ ३८६ ।। गृहाणेदं धनं मे त्वमिति जल्पंश्च खेचरः । अभाणि सार्थपन स्वं मुक्त्वा सर्वस्वमग्रतः ॥ ३८७ ॥ स्वीकुरुं त्वमिदं विचं ग्रन्मयेति प्रतिश्रुतम् । ..यो मे ऽवं जीवयत्येनं तस्मै सबै ददे धनम् ॥ ३८८ ॥