________________
३८२ श्रीवर्धमानमूरिविरचितं [स.४.३६५-३७६)
मम वाहयतो बाहः प्रमीतो ऽयं हतो अस्मि हा ॥३६५ ॥ य एनं जीवयत्यश्वं ददे तस्मै निजं धनम् । इति ध्यायंश्वचालांघ्रिचारेणैष त्वराभरात् ॥ ३६६ ॥ तृषातुरस्तरौ बद्धां वीक्ष्य वारिभृतां दृतिम् । कस्येयं दृतिरित्युच्चैरुच्चचार मुहुर्मुहुः ॥ ३६७ ॥ दूरे गतस्य वैद्यस्य विभोवीक्षितुमौषधम् । नैवाहं ज्ञापयिष्यामि पिब तन्निर्मलं जलम् ।। ३६८ ॥ इत्यसौ शाखिशाखाग्रपञ्जरस्थशुकाननात् । आकर्ण्य कर्णीः पाणिभ्यां प्रच्छाद्य शुकमभ्यधात् ॥३६९॥
युग्मम् ॥ तृष्णा गृह्णातु मे प्राणांस्तेनादत्तं पुनः पयः । न पिबामि महापापमदत्तादानमुच्यते ॥ ३७० ॥ शाखाग्रादुपसंहृत्य शुकरूपं सपञ्जरम् । उत्तीर्याग्रेचर को ऽपि नरः स्थित्वा मुदावदत् ।। ३७१ ॥ वैताढये विपुलापुर्या सूर्याख्यः खेचरो ऽस्म्यहम् । त्वत्पुरे विशदं तातं मुनिं नन्तुं वने ऽगमम् ॥ ३७२ ॥ ममासंख्यधनस्यापि परद्रव्ये हृते सुखम् । अतो मामयमुद्दिश्यादिदेशास्तेयवर्णनाम् ।। ३७३ ॥ अदत्तादानविरतिस्त्वया चक्रे तु तत्पुरः । चिरं चिन्तितवानस्मि तदा सस्मयविस्मयः ॥ ३७४ ।। दूरं देशं विशन्त्येते सार्थपाः श्रीलवार्थिनः । तरिक दृष्टं सुखेनान्यद्रव्यं नैव हरन्त्यमी ॥ ३७५ ॥ तदवश्यं करिष्ये ऽस्य सार्थपस्य परीक्षणम् । अदृश्येन मया प्रापि प्रस्तावस्त्वय पश्यता ।। ३७६ ॥