________________
६
[सं. ४.३५४ - ३६४] वासुपूज्यचरितम्
३८१
अङ्के सुप्तः कान्तानां सुखी यावदचिन्तयत् ।। ३५४ ॥ तावद्दिव्यतनुर्दिव्यचीराभरणभासुरः । कश्चित्पुमान्पुरः स्पष्टीभूय बद्धाञ्जलिर्जगौ ।। ३५५ ॥ ॥ युग्मम् ॥
धन्यमकुक्षिसरोहंस गृहं सर्वश्रियां बृहत् । विद्यते विपदां दूरं मणिपूरं महापुरम् ।। ३५६ ।। तत्रासीत्सार्थपः पुण्यधरो गुणधराभिधः ।
सो ऽन्यदा विशदाख्यस्य मुनेः पार्श्वे वने ऽगमत् ॥ ३५७| जन्तोः स्यादुःखदं द्रव्यहरणं मरणादपि । अथ सुकृतिभिः कार्य चौर्यचर्याविमोचनम् ।। ३५८ ॥ एवमाकर्ण्य पुण्यात्मा स विद्याधरसंसदि । अदत्तादानविरतिं व्यधात्तत्र तदा मुदा ।। ३५९ ॥ पुरं प्राप्तः कदाप्येष विशेषधनकाङ्क्षया । देशान्तराय कस्मैचिद्भूरिभाण्डभरो ऽचलत् ।। ३६० ॥ स्वदेशान्ते महाटव्यामस्मिन्सार्थे विशत्यथ । अश्वारूढः क्वचित्प्रौढपददण्डे व्रजन्पुरः ।। ३६१ ॥ दृष्ट्वासौ पतितां स्वर्णलक्षमूल्यां मणिस्रजम् । व्रतभङ्गभयात्तस्यां न मुहुर्दृष्टिमप्यदात् ।। ३६२ ।। युग्मम् ॥
किं सार्थो याति दूरे यच्छ्रूयते तुमुलोऽपि न । इत्यसौ जातहृद्दाहस्ततो वाहमवाहयत् ।। ३६३ ॥ मार्गे हरिखुरोत्खाते स्वर्णपूर्ण स भूतले । ताम्रकुम्भं निभाल्याशु व्रतभङ्गभयाययौ ।। ३६४ ॥ सहसाश्वे मृते पापभीरुः सो ऽचिन्तयत्तदा ।