________________
३८० • श्रीवर्धमानसूरिविरचितं [स.४.३४२-३५३]
दातारो ऽप्यर्थिता जग्मुः सीमन्तोनयनोत्सवे ॥ ३४२ ॥ कूपं जलेष्विव बिलं स्वर्णरत्नगणेषु तत् । कृष्यमाणेष्वपि वणिक् पूर्णमेव न्यरूपयत् ॥ ३४३ ॥ तद्भूतिमुदिता चिन्तासमकालातदोहदा । सुमुहूर्ते ऽद्भुतं धन्या सुखेन सुषुवे सुतम् ॥ ३४४ ॥ दानाधिक्येन गीतादिचारुत्वेन स च व्यधात् । सुतजन्मोत्सवे श्रेष्ठी विस्मयं घुसदामपि ॥ ३४५ ।। लक्ष्मीपुञ्जमिवालोक्य तं सुतं कान्तिभिः पिता । महेन महता लक्ष्मीपुञ्जनामानमातनोत् ॥ ३४६ ॥ कालकालोचितैर्भावरचितोपस्थितैः शिशुः । अजातचिन्तादुःखो ऽयं कामं कामदैवत ॥ ३४७॥ अस्पृशन्क्लेशकणमप्यरोदीन कदाप्यसौ । नित्यानन्दस्मितमुखः पित्रोः सुखकरो ऽभवत् ।। ३४८ ॥ कलाः प्रतिदिनं गृह्णन्कुतो ऽप्युल्लसिताः सिताः । रुचिस्तोमतनुः सोम इवावर्धत दृक्मियः ॥ ३४९ ।। तत्तदिक्तत्वमङ्गश्रीकलागुणगणोदयैः । कन्यास्तमागमनष्टौ दिग्भ्यो ऽष्टभ्यः स्वयंवराः ॥३५०॥ नित्यं रत्नालये लीनो दर्शनस्पर्शनद्विषोः । नाबुध्यत स्वरूपं स तमिस्रतपनत्विषोः ।। ३५१ ॥ यद्यत्पीतिकरं सर्व स तत्तदुपभुक्तवान् । यद्यदुःखकरं तत्तबुबुधे सत्तयापि न ॥ ३५२ ॥ प्रियाभिरेव संवृत्तनृत्तगीतादिसंमदः । कालं यान्तं स नाबोधि पश्चोत्तरमुरो यथा ॥ ३५३ ॥ अचिन्तिताः कुतो भोगाः स्युर्ममेति कदाप्यसौ ।